________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिव्यतत्त्वम् ।
Be
।
त्व' मुख' ब्रह्मवादिनाम् । जठरस्थो हि भूतानां ततो बेसि शुभाशुभम् । पापं पुनासि वै यस्मात्तस्मात् पावक उच्यते । पापेषु दर्शयात्मानमर्चिषान् भव पावक । अथवा शुद्धभावेन शौतो भव हुताशन । त्वमग्ने सर्वभूतानामन्तश्चरसि साचिवत् । त्वमेव देव जानीषे न विदुर्यानि मानवाः । व्यवहाराभिशस्तोऽयं मानुषः शविमिच्छति । तदेनं संशयादस्माधर्मतस्त्रातुमर्हसि। ततः कर्त्तहस्तयोरुपरि सप्ताश्वत्थपत्राणि सप्तमीपत्राणि सप्तदूर्वापत्राणि दध्यचतान् यवान् पुष्पाणि च शुक्लसूत्रेण सप्तकृत्वो वेष्टयेत् । कर्त्ता लौहपिण्डस्थमग्निमभिमन्त्रयेदनेन मन्त्रेण 'त्वमग्ने सर्वभूतानामन्तश्चरसि पावक । साचिवत् पुण्यपापेभ्यो ब्रूहि सत्य करे मम' | ततस्तस्तयोरुपरि लौहपिण्डं निदध्यात् ततस्तं गृहीत्वा शनैरकुटिलं क्रमशः सप्तमण्डलानि गत्वा नवममण्डलस्थतृणोपरि त्यजेत् । ततः पुनरपि ब्रौहिभिर्मर्दयेत् । श्रदग्धश्वत् शुद्धिमाप्नुयात् अन्तरापतिते पिण्डे दग्धादग्धत्वसन्देहे वा पुनर्हरेत् । स्खलने हस्तयोरन्यत्र दाहे न दोषः । पुनरारोपणञ्च ततो गुरुपुरोहितादीन् दक्षिणाभिः परितोषयेत् । इति श्रग्निपरीक्षा
अथ उदकपरीक्षा । पितामह: 'तोयस्याथ प्रवक्ष्यामि विधिं धर्म्यं सनातनम् । मण्डलं पुष्पधूपाभ्यां कारयेत् सुविचक्षणः । शरान् संपूजयेद्भक्त्या वैणवञ्च धनुस्तथा' । तत्र प्रथमतो वरुणं पूजयेत् यथा नारदः 'गन्धमाल्यैः सुरभिभिर्मधुचीरघृतादिभिः । वरुणाय प्रकुर्वीत पूजामादौ समाहितः । ततो धर्मावाननादिसकलदेवतापूजा होम समन्त्रकप्रतिज्ञापत्रशिरो निवेशान्तं कर्म कुर्य्यात् । कात्यायनः । 'शरांस्त्वनायसाग्रांस्तु प्रकुर्वीत विशधये । वेणकाष्ठमयांश्चैव
For Private and Personal Use Only