________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
दिव्यतत्त्वम् ।
ब्रीहिमर्दन संस्कृतकरयोरुपरि सप्ताखत्यपत्राणि विन्यस्य सप्तसूवैः संवेष्याद्यमण्डले तिष्ठन् प्राड्विवाकेन सन्दशानोर्त लौहपिण्डमनेन याज्ञवल्कयोक्तेनाभिमन्त्रयेत् । 'त्वमग्ने सर्वभूतानामन्तखरसि पावक । साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्य' करे मम' । अस्यार्थः हे अग्ने त्वं सर्वभूतानां जरायुजाण्डज स्वेदजो द्विज्जातानामन्तः शरीराभ्यन्तरे चरसि भुक्ताव्रपानादीनां पाचकत्वेन वर्त्तसे सर्वस्य हृदयगतं जानासौति वा । पावक शडितो करे अन्तर्दर्शिन् सर्वार्थदर्शिन् सर्वजेति यावत् अतः साचिवत् पुण्यपापेभ्यः सत्यं ब्रूहि पुण्यपापेभ्य इति ल्यक्लोपे पञ्चमी पुण्यपापान्यवेच्य सत्य ं ब्रूहि दर्शयेत्यर्थः तदनन्तरं याज्ञवल्काः 'तस्येत्युक्तवतो लौहं पञ्चाशत्पलिकं समम् । अग्निवर्णं न्यसेत् पिण्ड' हस्तयोंरुभयोरपि' न्यसेद्राजा प्राड्विवाको वा यथा पितामहः 'ततस्त ं समुपादाय राजा धर्मपरायणः । सन्दंशेन नियुक्तो वा हस्तयोर्ह्यस्य निक्षिपेत्' । तं लौहपिण्डं नियुक्तः प्राड्विवाकः अस्य दिव्यकर्तुः याज्ञवल्काः 'स तमादाय सप्तैव मण्डलानि शनैर्व्रजेत्' । एवकारेण मण्डलेषु एव पादन्यासो मण्डलानतिक्रमणञ्च दर्शितं व्यक्तमाह पितामह: 'न मण्डलमतिक्रामेत् नाप्यर्वाक् स्थापयेत् पदम् । अष्टमं मण्डलं गत्वा नवमे चेपयेद् बुधः' कालिकापुराणं 'मण्डलानि तथा सप्तषोड़शाङ्ग ुलिमानतः । तावदन्तरितो गच्छेद्गत्वा नवढणे चिपेत्' । अत्र च गन्तव्यानि सप्तैव मण्डलानि यतः प्रथमे तिष्ठति नवमे चिपति तेन न विरुध्यते । 'अन्तरा पतिते पिण्डे सन्देहे वा पुनर्हरेत्' । सन्देहे दग्धत्वादग्धत्वसन्देहे तस्मिन्नेव प्रयोगे पिण्ड पुनरारोप्य शेषं समापयेत् न तु प्रयोगान्तरम् आरोपणमात्रस्य पुनर्विधानात्
याज्ञवल्काः
For Private and Personal Use Only