________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८६
दिव्यतत्वम् । कारयित्वा शुचिहिजः। तृतीयतापे तप्यन्त ब्रूयात् सत्यपुरस्कृतं' सत्यपुरस्कृतं सत्यशब्दयुक्त लमग्ने सर्वभूतानामिति याज्ञवल्कयोक्त मन्त्रं ब्रूयादित्यर्थः। अयःपिण्ड विशेषयति पितामहः 'अम्रहीनं तथा कृत्वा अष्टाङ्गलमयोमयम्। पिण्डन्तु तापयेदग्नी पञ्चाशत्यलिकं समम्'। असं कोणं अङ्ग लिमानन्तु 'तिर्यग्यवोदराण्यष्टावर्डा वा बौहयस्त्रयः । प्रमाणमङ्गलस्योक्त वितस्तिर्वादशाङ्गलः'। पलपरिमाणमाह मनुः। 'पञ्चकष्णलकोमाषस्ते सुवर्णस्तु षोड़श। पलं सुवर्णाश्चत्वारः' इति लौकिकमानेनाटतोलकपरिमितपलानि विशति: षट्तोलकाः पञ्चमाषकाश्चतस्रो रत्तिकावैदिकपञ्चाशत: पलेभ्यो निष्पद्यन्ते ततः 'शान्त्यर्थं जुहुयादग्नौ हतमष्टोत्तरं शतम्' इति मिताक्षरातात्। प्राडूविवाको मण्डलभूमर्दक्षिणदेशे स्वग्रयोक्तविधिनाग्निं संस्थाप्य ओम् अग्नयै पावकाय स्वाहेति मिताक्षरोक्तमन्त्रेणाज्येनाष्टोत्तरशतं हुत्वा तस्मिनग्नौ तल्लौहपिण्ड प्रक्षिप्य तत्यिण्डं जले क्षिप्या पुन: संताप्य जले पुनः क्षिप्या पुनस्तस्मित् तप्यमाने धर्मावाहनादिहवनान्तपूर्वोक्त विधि विधाय तत् पिण्ड जले क्षिया पुनस्तप्यमानपिण्डस्थमग्निमेभिः पितामहाद्युक्तैर्मन्त्रैरभिमन्वयेत् ओम् 'त्वमग्ने वेदाश्चत्वारस्त्वञ्च यज्ञेषु हयसे। त्व मुख सर्वदेवानां त्वं मुखं ब्रह्मवादिनाम्। जठरस्थो हि भूतानां ततो वेत्सि शुभाशुभम्। पापं पुनासि वै यस्मात् तस्मात् पावक उच्यते। पापेषु दर्शयात्मानमर्चिमान् भव यावक। अथवा शुद्धभावेषु शीतो भव हुताशन। त्वमग्ने सर्वभूतानामन्तशरसि साक्षिवत्। त्वमेव देव जानौषे न विदुर्यानि मानवाः। व्यवहाराभिशस्तोऽयं मानुषः शहि. मिच्छति। तदेनं संशयादस्माधर्मतस्त्रातुमर्हसि। ततो
For Private and Personal Use Only