________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिव्यतत्त्वम् ।
Ben
ल्पना' | यहा 'कर्तुः पादसमं कार्य्यं मण्डलन्तु प्रमाणतः । श्राग्नयमग्निदेवताकम् एवमन्यत्र तेनाग्न्यादयस्तेन पूज्याः मण्डलं षोड़शाङ्ग ुलं तदन्तरालञ्च षोड़शाङ्गलं तेन मिलित्वा हाविंशदङ्ग ुलमिति तथाच याज्ञवल्काः ' षोड़शाङ्ग ुलकं ज्ञेयं मण्डलन्तावदन्तरमिति' । तथा 'मण्डले मण्डले देया: कुशाः शास्त्रप्रचोदिताः । विन्यसेत्तु पदं कर्त्ता तेषु नित्यमिति स्थितिः । प्राङ्म ुखस्तु ततस्थिष्ठेत् प्रसारितकराञ्जलिः | आर्द्रवासाः शुचिचैव शिरस्यारोप्य पत्रकम् । पश्चिमे मण्डले तिष्ठेत् प्राङ्म ुखः प्राञ्चलिः शुचिः । लचयेयुः चतादौनि हस्तयोस्तस्य कारिणः' । तस्यावष्टष्टव्रीहेः ः । तथाच याज्ञवल्काः 'करौ विमृदितत्रौ हेर्लक्षयित्वा ततो न्यसेत् । सप्ताश्वत्थस्य पत्राणि तावत् सूत्रेण वेष्टयेत्' । विमृदितव्रीहेः कराभ्यामिति शेषः विमृदितव्रीहेः करौ लक्षयित्वा चततिलादिस्थानेषु हंसपदाक्कतिरेखा रूपेण रक्तचन्दनादिविन्दुना अङ्कयित्वा तदाह नारदः 'हस्तचतेषु सर्वेषु कुर्य्याइंसपदानि तु तान्येव पुनरालचे वस्तौ विन्दुविचिवितो' । ततश्च हस्तयोरुपरि सप्ताश्वत्थपत्राणि सप्तमीपत्राणि सप्त दूर्वापत्राणि दध्यक्तान् यवान् पुष्पाणि च विन्धसेत् । 'सप्त पिप्पलपत्राणि शमीपत्राण्यय क्रमात् । दूर्वायाः सप्त पत्राणि दध्यक्तांश्चाक्षतान् न्यसेत्' । इति मिताचराधृतवचनात् । सप्तपिप्पलपत्त्राणि श्रचतं सुमनो दधि | हस्तयोर्निक्षिपेत्तव सूत्रेण वेष्टनं तथा' इति पितामहवचनाच्च सूत्र विशेषयति नारदः । 'वेष्टयीत सितैर्हस्तौ सप्तभिः सूत्रतन्तुभिः । तथा 'जात्यैव लौहकारो यः कुशलचाग्निकर्मणि । दृष्टप्रयोगश्चान्यत्र तेनायोऽग्नौ प्रतापयेत्। अग्निवर्णमयं पिण्ड' सस्फुलिङ्ग सुरञ्जितम् । पञ्चाशत्पलिकं भूयः
For Private and Personal Use Only