________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५८४
'दिव्यतत्त्वम् ।
यद्य
धृतो धारयसे यस्मात् घटस्तेनाभिधीयते । त्वं वेत्सि सर्वभूतानां पापानि सुकृतानि च। त्वमेव देव जानीषे न विदुर्यानि मानवाः । व्यवहाराभिशस्तोऽयं मानुषः शब्विमिच्छति । तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि । तुलाधारकं निशामयेदनेन मन्त्रेण 'ब्रह्मन्ना ये स्मृता लोका ये लोकाः कूटसाक्षिणः । तुलाधारस्य ते लोकास्तुलां धारयतो मृषा' । ततोऽभिशस्तस्तुला मामन्त्रयेदनेन 'त्वं तुले सत्यधामासि पुरा देवैर्विनिर्मिता | तत्सत्यं वद कल्याणि संशयान्मां समुद्धर । स्मिन् पापकृन्मातस्ततो मां त्वमधो नय । शुद्धयेहमयोङ्ख मां तुलामित्यभिमन्त्रयेत् । ततः प्राड्विवाकः पूर्वाननं तं पूर्ववत् घटमारोपयेत् । आरोपितञ्च पलपञ्चककालं तत्र शुद्धाशुद्द्विज्ञापनाय स्थापयेत् । ततः प्रतिमानद्रव्यादूर्भावस्थाने शहः अधोऽवस्थानेऽशुद्धः समावस्थानोऽपि अल्पदोषः कचकौलककर्कटशिक्यपादाचादौनां दृष्टकारणव्यतिरेकेण छेदे भङ्ग वाप्यशुद्दिमादिशेत् । ततः पुरोहिताचार्य्यादीन दक्षिणाभिस्तोषयेत ।
अथ अग्निपरीक्षा । पितामहः । 'अग्नेर्विधिं प्रवक्ष्यामि यथावच्छास्त्रभाषितम् । कारयेन्मण्डलान्यष्टौ पुरस्तान्रवमं तथा । श्रग्नेयं मण्डलं त्वाद्यं द्वितीयं वारुणं स्मृतम् । तृतीयं वायुदेवत्य चतुर्थं यमदेवतम् । पञ्चमन्विन्द्रदेव त्य षष्ठ कौवेरमुच्यते । सप्तमं सोमदत्य सावित्रमष्टमं तथा । नवमं सर्वदैवत्यमिति दिव्यविदो विदुः । पुरस्तानवमं यच्च तन्महत् पार्थिवं विदुः । महत्पार्थिवमित्यपरिमिताङ्गुलमित्यर्थः 'गोमयेन कृतानि स्युरा: पर्य्युचितानि च । द्वात्रिंशदङ्ग ुलान्याहुर्मण्डलात् मण्डलान्तरम् । श्रष्टाभिर्मण्डलैरेव - मङ्गुलीनां शतद्दयम् ! षट्पसमधिकं भूमेस्तु परिक
For Private and Personal Use Only