SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । छूই 1 माधवार्थोऽपि ब्रह्मवैवर्त्तः । ' कोदृशस्तु भवेदवेधो योगो विप्रेन्द्र कौमः । योगबेधौ समाचक्ष्व याभ्यां दुष्टमुपोषणम् । चतस्रो घटिका प्रातररुणोदयनिययः । चतुष्टयविभागोऽव बेधादीनां किलोदितः । अरुणोदयवेधः स्यात् साईन्तु घटिकादयम् । अतिषेधो विघटिका प्रभासन्दर्शनाद्रवेः । महावेधोऽपि तत्रैव दृश्यतेऽर्को न दृश्यते । तुरीयस्तव विहितो योग: सूर्योदये बुधैः । तथा 'यातुधानव्रतं योगे महावेधे तु राचसम्। जम्भासुरस्यातिबेधे मोहिते वै प्रवेशिनी' इति अनेन तत्तदेकादशीफलं तत्तदसुरः प्राप्नोतीति विशेषः । घटिका दण्ड: । ' उदयात् प्राक् चतस्रस्तु नाड़िका अरुणोदयः' इति स्कान्दे नारदवचनैकवाक्यत्वात् कण्वः । उदयोपरिविडा तु दशम्येकादशी यदि । दानवेभ्यः प्रीणनार्थं दत्तवान् पाकशासनः । गारुड़े । " दशमोशेषसंयुक्तो यदि स्यादरुणोदयः । नैवोपोष' वैष्णवेन तद्दिनैकादशीव्रतम् । उदयात् प्राग्यदा विप्र मुहर्त्तदयसंयुता । संपूर्णेकादशी श्रेया तत्रैवोपवसेद् गृही' । इत्यादिवचनजातात् सूर्य्योदयानन्तरविदा सर्वेरेव नोपोष्या । अरुणोदयविद्धा तु विष्णवैर्नोपोष्या इत्याह । तेन जीमूतवाहनप्रमृतीनां मते सूर्योदयानन्तरदशमौविद्धैकादशीं परित्यज्य शहां द्वादशीमुपोष्य त्रयोदश्यां पारणमिति वर्त्तुलार्थः । तथाच कालनिर्णये स्मरति । प्रतिवेधा महावेधा ये वेधास्तिथिषु स्मृताः । सर्वेऽप्यवेधा विज्ञेया वेधः सूर्योदये सब्रि' । एवञ्च सुर्योदयकालौनवेधः सर्वथा त्याज्यः । अरुणोदयवेधे तु प्रतिप्रसवसत्वात् कचिदग्राह्यत्वमिति । अत्र गौड़ीयानां विशेषतो देशाचारात् । उदयोपरिविद्या तु सर्वथा नोपोष्या तथाच मरीचिः । येषु स्थानेषु यच्छौचं धर्माचारय ग्राहणः । For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy