SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२ एकादशीतत्त्वम् । दश्यां यदा वत्म दिनक्षयतिथिर्भवेत् तत्रोपोथा हादशी स्यात्त्रयोदश्यान्तु पारणम्'। व्यासः। 'दशमौमिश्रिता पूर्वा हादशी यदि लुप्यते। एकादश्यां महाप्राज्ञ उपवास: कर्थ भवेत्। शुद्धैकाहादशी राजवपोष्था मोक्षकातिभिः । पार• णन्तु त्रयोदश्यां पूजयित्वा जनार्दनम्। भविष्थे। 'दशमी. शेषसंयुक्तो यदि स्यादरुणोदयः । वैष्णवेन न कर्त्तव्यं तहिनेका. दशीव्रतम्'। ब्रह्मवैवर्तः। 'चतस्रो घटिका प्रातररुणोदय उच्यते। यतीनां स्नानकालोऽयं गङ्गाम्भःसदृश: स्मृतः । वियामां रजनों प्राहुस्त्यवाद्यन्तचतुष्टयम्। नाडौनां तदुर्भ सन्ध्ये दिवाद्यन्तसंजित'। तथा 'नन्दा शरीरं टेवस्य भद्रा यात्माक्षयो मतः । तस्मात् सरोगं त्यत्वाङ्गमात्मानमुपवामयेत्'। नन्दा एकादशी भद्रा हादशी तथा 'वरमेकादशी त्याज्या न काया दशमी युता' इत्यरुणोदयवेधनिषेधवाक्यम्। यदा हादश्यां कियन्मात्राप्य कादशी दृश्यते तदा पूर्वी त्याज्या काम्यैकादशीव्रतविषयम्। 'अरुणोदयकाले तु दशमी यदि दृश्यते। न तत्रैकादशी त्याज्या धर्मकामार्थदायिनी' इति श्रवणादित्याह। पाश्चात्य निर्णयामृते भविष्योत्तरीयम्। 'अरुणोदयकाले तु दशमी यदि दृश्यते । सा विबैकादशी तत्र पापमूलमुपोषणम्। भविष्यपराणोय. मेतदिति माधवाचार्य: ततश्चारुणोदयवेधे तु भागवतैर्नोपवासः कार्यः। सकाल: स्कान्दे उक्तः। यथा 'उदयात् प्राक् चतम्रस्तु नाड़िका अरुणोदयः। तत्र सानं प्रशस्त स्यात्तचि पुण्यतमं स्मृतम्' इति कविकान्तसरस्वती विवादर्श वैधस्तूदये निषिद्धः 'दशम्याः प्रान्तमादाय यदोदेति दिवाकरः । तेन दुष्टं हरिदिनं तदृत्तमसुराय हि' इति स्मृतेः। अत्र दत्तं जम्भासुराय तु इति माधवाचार्यः पठति। कालमाधवीये For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy