________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
૫૨
दिव्यतत्त्वम् ।
यित्वावतार्थ धर्मावाहनादि कुय्यात् । श्र तत्मदित्युच्चार्य ब्राह्मणत्रयं गन्धादिना पूजयित्वा अस्मि मुकपरोक्षाकर्मणि पुण्याहं भवन्तो ब्रुवन्त्वित्यादि वाचयित्वा पुण्याहं स्वस्ति ऋषि प्रत्येकं विस्ततो दिव्याङ्गभूतहोमार्थं ब्राह्मणचतुष्टयच पाद्यादिभिरभ्यर्च्य वृणुयात् अशक्तावेकं ब्राह्मणमेक मृत्विजय ततो घटे गणेशनवग्रहपूजा तत्र तुलां सपताकां ध्वजालङ्कृतां भूमौ निधाय तस्यां प्रामुखः पुष्पाक्षतमादाय ॐ भूर्भुव: स्वरित्युच्चार्य श्रीम् 'एह्येहि भगवन् धर्म दिव्ये ह्यस्मिन् समाविश । सहितो लोकपालैश्च वस्त्रादित्यमरुद्गणैः' इति मन्त्रेण धर्ममावाह्य एषोऽर्घ श्र धर्माय नम इत्यादिनाऽर्घपाद्याचमनीयमधुपर्क पुनराचमनीयखानीय वस्त्रयज्ञोपवीतम् कुटकटकादिभूषणान्तं दत्त्वा तथैवाङ्ग देवतानामर्घ्यादि भूषणान्त दत्त्वा प्रणवादिनमोऽन्तेन खखनाम्ना पूजयेत् पूर्वस्याम् इन्द्राय दक्षिणस्यां यमाय पश्चिमायां वरुणाय उत्तरस्यां कुवेराय आग्नेय्यामग्नये नैऋत्यां निऋतये वायव्यां वायवे ऐशान्यामोशानाय ऊङ्घ ब्रह्मणे अधोऽनन्ताय इन्द्रस्य दक्षिणे पार्श्वेऽष्टवसुभ्यः प्रत्येकं स्वस्वनामभिः वसूनां ध्यानमाह आदित्यपुराणे 'प्रसन्नवदनाः सौम्याः वरदा: शक्तिपाणयः । पद्मासनस्था द्विभुजा वसवोऽष्टौ प्रकीर्त्तिताः । तत्र धराय ध्रुवाय सोमाय अपाय अनिलाय अनलाय प्रत्यूषाय प्रभाषाय इन्द्रेशानयोर्मध्य तथा हादशादित्येभ्यः तेषां ध्यानम् श्रादित्यपुराणे । पद्मासनस्था द्विभुजा पद्मगर्भाङ्गकान्तयः । करादिस्कन्धपर्यन्तनीलपङ्कजधारिणः । धावाद्या दादशादित्यास्तेजोमण्डलमध्यगाः । तत्र धात्रे अय्यन मित्राय वरुणाय अंशवे भगाय इन्द्राय विवस्वते पूष्णे पर्जन्याय त्वष्टुं विष्णवे अग्नेः पश्चिमभागे तथैकादश रुद्रेभ्यः ध्यानम् आदित्यपुराणे 'करे त्रिशूलिनो वामे दक्षिणे चाच
Co
For Private and Personal Use Only