SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्त्वम् । ५८५ वरुणस्योत्तरे भागे मरुतां स्थानमुच्यते। वसन: स्पर्शनो वायुरनिलो मारुतस्तथा। प्राणः प्राणेश जौवौ च मरुतोऽष्टौ प्रकीर्तिताः। घटस्योत्तरभागे तु दुर्गामावाहयेद् बुधः । एतासां देवतानाञ्च स्वनाम्ना पूजनं विदुः' । विशेषमाह ब्रह्मपुराणम्। 'प्रोङ्कारादिसमायुक्तं नमस्कारान्त कीर्तितम् । खनाम सर्वसत्वानां मन्त्र इत्यभिधीयते। अनेनैव विधानेन गन्धपुष्पे निवेदयेत्। एकैकस्य प्रकुर्वीत यथोद्दिष्टं क्रमेण तु'। मन्त्र इत्यभिधानाटनेनैवेत्येवकारश्रुतेश्च इदं द्रव्यम् ओम् अमुकाय नम इति योज्य' न तु धर्मायाय प्रकल्पयामि नम इति मिताक्षरोक्त प्रमाणाभावादनन्वयाच्च । पितामहः । 'भूषावसानं धर्माय दत्त्वा चाादिकं कमात्। अादि पवादङ्गानां भूषान्तमुपकल्पयेत्। गन्धादिकां नैवेद्यान्तां परिचयां प्रकल्पयेत्'। एतत् सर्वं प्राविवाकः कुर्यात् यथा 'प्राविवाकस्ततो विप्रो वेदवेदाङ्गपारगः। श्रुतव्रतोपपनश्च शान्तचित्तो विमत्सरः। सत्यसन्धः शुचिर्दक्ष: सर्वप्राणिहिते रतः। उपोषित: शुद्धवासाः कृतदन्तादिधावनः । सर्वासां देवतानाञ्च पूजां कुर्याद् यथाविधि'। रक्तपुष्पगन्धादौनाह नारदः। 'रक्तैर्गन्धैश्च माल्यैश्च धूपदीपाक्षतादिभिः । अर्चयेत्त धटं पूर्व तत: शिष्टांश्च पूजयेत्'। धटं धर्म तथाच विष्णुनारदौ 'धर्मपर्यायवचनं धट इत्यभिधीयते'। शिष्टानिन्द्रादीन्। अविशेषात् सर्वत्र रक्तान्वयः। मिताक्षरायान्तु धर्म पूजन एव रक्तावनियमः । तथा 'चतुर्दितु ततो होमः कर्तव्यो वेदपारगैः। श्राज्येन हविषा चैव समिद्भिोमसाधनैः। सावित्रया प्रणवेनैव स्वाहान्तेनैव होमयेत्'। तेन प्रणवादिकां गायत्रीमुच्चार्य पुनः स्वाहाकारान्तं प्रणवमुच्चार्य समिदाज्यचरून् प्रत्येकमष्टोत्तरशतं जुहुयादिति मिताक्षरा। For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy