________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८०
दिव्यतत्त्वम्। दिव्यमपि भवति साक्षिणां दोषसम्भवात् दिव्यस्य तु निर्दोष त्वेन वस्तुतत्त्व विषयत्वात् तल्लक्षणत्वाच्च धर्मस्य। यथा नारटः 'तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिणि। दैवसाध्ये पौरुषन्तु न लेख्यन्तु प्रयोजयेत्'। स्थावरविवादे तु प्रत्य. र्थिना दण्डाङ्गीकारेण दिव्यावलम्बने कृते सामन्तादिष्ट प्रमाणसत्त्वेऽपि दिव्यं ग्राह्यमिति विकल्पनिराकरणाय स्थाव. रेष्वित्यादि पितामहवचनं नात्यन्तिकदिव्यनिराकरणाय लिखिताद्यभावे स्थावरादिषु निर्णयाप्रसक्तः ।। __ अथ द्रव्यसंख्यया दिव्यविशेषाः। विष्णुः ‘अथ समयक्रियाराजद्रोहसाहसेषु यथाकामं निक्षेपर्णस्तेयेषु अर्थप्रमाणादिति'। समयो दिव्यं राजद्रोहादिषु यथाकामं राजेच्छानुरोधात् दिव्यं निक्षेपादिषु तु धनप्रमाणतारतम्यादित्यर्थः । वृहस्पति: 'संख्यारश्मि रजो मूला मनुना समुदाहृता। कार्षापणान्ता मा दिव्ये नियोज्या विनये तथा। विर्ष सहस्रेऽपहृते पादोने च हुताशनः। विभागोने च सलिलम् अ१ देयो धटः सदा। चतुःशताभियोगे तु दातव्यस्तप्तमाषकः। त्रिशते तण्ड ला देयाः कोषश्चैव तटईके। शते हृतेऽपढ़ते च दातव्य धर्मशोधनम्। गोचौरस्य प्रदातव्यं सभ्यः फालं प्रयत्नतः। एषा संख्या निकष्टानां मध्यानां हिगुणा स्मता। चतुर्गुणोत्तमानाञ्च कल्पनीया परीक्षकैः'। रश्मिरजः 'जालान्तरगते भानौ यत् सूक्ष्म दृश्यते रजः। प्रथमं तत् प्रमाणानां वासरेणु प्रचक्षते' इति मनूक्तं कार्षापणान्तापणान्ता कार्षापण: पण इति पायदर्शनात् विनये दण्ड एवञ्च सहस्र इत्यादौ पण इति जेयमुपक्रमात् निकटानां जातिकर्मगुणैः। एवञ्च 'नासहस्राइरेदग्निं न तुला न विषं तथा' इति याज्ञवाकावचम मध्यमोत्तमविषयत्वेन
For Private and Personal Use Only