________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिव्यतत्त्वम्।
शस्यते बुधैः। नाष्टम्यां न चतुर्दश्यां प्रायश्चित्तपरीक्षणे। न परीक्षा विवाहश्च शनिभौमदिने भवेत्'। रविशुद्धौ गुरौ चैवेत्यत्र शस्थत इति शेषः । तथाच दीपकलिकायाम् । 'नो शक्रास्तके गुरुसहितरवी जन्ममासेऽष्टमेन्दौ विष्टौ मासे मलाख्ये कुजशनिदिवसे जन्मतारास चाथ । नाडौनक्षत्रहीने गुरुरविरजनीनाथ तारा विशुद्धौ प्रात: काया परीक्षा हितनुचरग्रहांशोदये शस्तलग्ने' पितामहः। 'प्रत्यक्षं दापयेहिव्यं राजा वाधिकृतोऽपि वा। ब्राह्मणानां श्रुतवतां प्रकृतीनां तथैव च । ब्राह्मणानां प्रकृतीनाञ्च दिव्य' प्रत्यक्षं दापये. दित्यर्थः। प्रकृतयोऽमात्यादयः 'खाम्यमात्यः सुहृत् कोषो राष्ट्रदुर्गबलानि च। राज्याङ्गानि प्रकृतयः पौराणां श्रेणयो. ऽपि च' इति अमरसिंहोताः ।
अथ दिव्यविशेषाधिकारिणः। तत्र नारदः 'ब्राह्मणस्य धटो देयः क्षत्रियस्य हुताशनः। वैश्यस्य सलिलं देयं शूद्रस्य विषमेव च । साधारण: समस्तानां कोषः प्रोक्तो मनी. षिभिः। विषवज ब्राह्मणस्य सर्वेषान्तु तुला स्मता'। यत् पुनरनेन 'सव्रतानां भृशार्तानां व्याधितानां तपखिनाम् । स्त्रोणाच न भवेदिव्यं यदि धर्मस्त्वपेक्षितः'। इति त्यादीनां दिव्यं निषिई तण्डुलेतरविषयमिति शूलपाणिः। मिताक्षरा तु पुस्त्रियोविवादे न स्त्रीणां दिव्यमिति रुचावान्यतरः कुर्यादिति विकल्पनिषेधार्थम् एतदुक्त भवति अवष्टम्भाभियोगेषु ख्यादीनामभियोक्तत्वेऽभियोज्यानां दिव्यम् एतेषामभियोज्यत्वेऽभियोक्तृणामेव दिव्यं परस्पराभियोगे तु विकल्प एव तवापि तुलैवेति नियम्यते तथा महापातकादिशाभियोगे तु ख्यादौनान्तु तुलैव यथा याज्ञवल्काः 'तुला स्त्रीबालवृहान्धपङ्गुब्राह्मणरोगिणाम्। अग्निर्जलं वा शूद्रस्य यवाः
४४-क
For Private and Personal Use Only