________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीपुरुषोत्तमतत्त्वम् ।
५७३
श्वरः । सर्वपापहरं तस्य क्षेत्रं परमदुर्लभम् । लिङ्गकोटिसमायुक्तः वाराणस्याः समं शुभम् । एकाम्म्रकेति विख्यातं तौर्थाष्टकसमन्वितम् । तौर्थं विन्दुसरो नाम तस्मिन् चेत्रे द्विजोत्तमाः । देवानृषीन् मनुष्यांव पितृन् सन्तर्पयेत्ततः । तिलोदकेन विधिना नामगोत्रविधानवित् । भ्रात्वैव विधिवत्तव सोऽश्वमेधफलं लभेत् । पिण्डं ये संप्रयच्छन्ति पितृभ्यः सरसस्तटे । पितॄणामक्षयां तृप्ति ते कुर्वन्ति न संशयः । ततः शम्भोट' हं गच्छेदु वाग्यतः संयतेन्द्रियः । प्रविश्य पूजयेत् पूर्वं कृत्वा तत्र प्रदक्षिणम् । आगमोक्तेन मन्त्रेण वेदोक्तेन च शङ्करम् । अदौचितच वा देवान् मूलमन्त्रेण चार्चयेत्' । तथा 'सर्वपापविनिर्मुक्तो रूपयौवनगर्वितः । कुलैकविंशमुद्धृत्य शिवलोकं स गच्छति' । तथा 'पश्येद्द वविरूपाक्षं देवञ्च शारदां शिवाम् । गणचण्डं कार्त्तिकेयं गणेशं वृषभं तथा । कल्पद्रुमञ्च सावित्रीं शिवलोकं स गच्छति । एतमया मुनिश्रेष्ठाः क्षेत्रं प्रोक्तं सुदुर्लभम् । कोनार्कस्योदधेस्तौरं भक्तिमुक्तिफलप्रदम् । स्नात्वेव सागरे दत्त्वा सूय्यायाय प्रणम्य च । नरो वा यदि वा नारी सर्वकामफलं लभेत् । ततः सूर्यालयं गच्छेत् पुष्पमादाय वाग्यतः । प्रविश्य पूजयेद्भानु कुयात्तं त्रिः प्रदक्षिणम् । दशानामखमेधानां फलं प्राप्नोति मानवः' ।
इति श्रीहरिहरभट्टाचाय्यात्मज श्रीरघुनन्दन भट्टाचार्यविरचितं पुरुषोत्तमतत्त्वं समाप्तम् ।
For Private and Personal Use Only