SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपुरुषोत्तमतत्त्वम् । પૂ 1 करतलयोः न्यसेत् । श्रोङ्कारं वामपादे तु नकारं दक्षिणे न्यसेत् । मोकारं वामकव्यान्तु नाकारं दक्षिणे न्यसेत् । राकारं नाभिदेशे तु यकारं वामबाहुके । णाकारं दक्षिणे न्यस्य यकारं मूर्ध्नि विन्यसेत् । अधश्चोद्धे च हृदये. पार्श्वतः पृष्ठतोऽग्रतः । ध्यात्वा नारायणं पश्चादाचरेत् कवच' बुधः । पूर्वे मां पातु गोविन्दो दक्षिणे मधुसूदनः । भूतले पातु वाराहस्तथोड़े च विविक्रमः । कृत्वैव कवचं पश्चादात्मानं चिन्तयेद्दरिम् । श्रहं नारायणो देवः शङ्खचक्रगदाधरः । एवं ध्यात्वा तथात्मानमिमं मन्त्रमुदौरयेत् । त्वमग्निर्द्विपदां नाथ रेतोधाः काकदीपनः । प्रधानः सर्वभूतानां जीवानां प्रभुरव्ययः । अमृतस्यारणिस्त्वं हि देवयोनिरपां पतिः । वृजिनं हर मे सर्व तीर्थराज नमोऽस्तु ते । एवमुच्चार्य विधिवत्ततः स्नानं समाचरेत् । अन्यथा भो द्विजश्रेष्ठाः स्रानं तत्र न शस्यते' । वनपर्वणि 'अग्निश्च तेजो वड़वा च देहो रेतोधाविष्णोरमृतस्य नाभिः । एवं ब्रुवन् पाण्डव सत्यवाक्यमतोऽवगाहेत पतिं नदीनाम् । अन्यथा हि कुरुश्रेष्ठ ! देवयोनिरपां पतिः । कुशाग्रेणापि कौन्तेय ! स्प्रष्टव्यो न महोदधिः' । बड़वा इत्यत्र बड़वा चेति कचित् पाठः । ब्रह्मपुराणे 'कत्वा चान्देवतैर्मन्त्ररभिषेकञ्च मार्जनम् । अन्तर्जले जपेत् पश्चात् त्रिराह्त्त्यघमर्षणम् । अब्दैवतैः आपोहिष्ठादिभिस्त्रिभिः । अघमर्षणञ्च ऋतञ्च सत्यञ्चेत्यादि । देवान् पितृस्तथा चान्यान् सन्तर्प्याचम्य वाग्यतः । अन्यान् ऋषीन् । 'हस्तमात्रं चतुष्कोणं चतुर्द्वारं सुशोभनम् । पुरं प्रलिख्य भो विप्रास्तौरे तस्य महोदधेः । मध्ये तत्र लिखेत् पद्मम् अष्टपचं सकर्णिकम् । एकं मण्डलमालिख्य पूजयेत्तत्र भो दिजाः । अष्टाक्षरविधानेन नारायणमजं विभुम् । For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy