SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६८ श्रीपुरुषोत्तमतत्त्वम् । दृष्ट्वा च तं देवं प्रणम्य नरकेशरिम् । मुच्यते पातकैर्मर्त्यः समस्तैर्नात्र संशयः । नरकेशरिं नरकेशरिणम्। तथा 'अनन्ताख्य' वासुदेवं दृष्ट्वा भक्त्या प्रणम्य च । सर्वपापविनिर्मुक्तो नरो याति परं पदम् । तथा 'श्वेतगङ्गां नरः नात्वा यः पश्येत् श्वेतमाधवम्' । तथा 'कुशाग्रेणापि राजेन्द्र ! श्वेतगाङ्गेयमम्बु च । स्पृष्ट्वा स्वर्गं गमिष्यन्ति मद्भक्ता ये समाहिताः । यस्त्विमां प्रतिमां लोके माधवाख्यां शशिप्रभाम् । विहाय सर्वलोकान् वै मम लोके महीयते । तथा 'खेतमाधवमालोक्य समौपे मत्यमाधवम । एकार्णवजले मग्नं रोहितं रूपमास्थितम् । देवानां तारणार्थाय रसातल - तले स्थितम्' । तथा 'आद्यावतारणं रूपं माधवं मत्स्यरूपिणम् । प्रणम्य प्रयतो भूत्वा सर्वदुःखाद्दिमुच्यते । तथा 'पूर्वोक्तेन तु मन्त्रण नमस्कृत्य तु तं वटम् । दक्षिणाभिमुखो गच्छेत् धन्वन्तरशतत्त्रयम्' । पूर्वोक्तेन श्रोम् नमोऽव्यक्तरूपायेत्यादिना । धनुश्च्चतुर्हस्तम् । तथा 'उग्रसेनं पुरा दृष्ट्वा स्वर्गद्वारेण सागरम् । गत्वाचम्य शुचिस्तत्र ध्यात्वा नारायणं परम् । न्यसेदष्टाक्षरं मन्त्र पश्चाद्धस्तशरीरयोः' समुद्रोदकेन नाचामेत तस्यापेयत्वस्य तैत्तिरीयश्रुतावुक्तत्वात् । 'यैः कृतः सर्वभक्ष्योऽग्निस्त्व पेयञ्च महोदधिः । तयो चाप्यायितश्चन्द्रः को न नश्येत् प्रकोप्य तान्' । इति मनुनाभिहितत्वाच्च । यैर्ब्राह्मणैः । तथा 'ओङ्कारश्च नमस्कारं यत्किचिज्जीवसंज्ञितम् । अङ्गुष्ठे हस्तपादे च शिखायां शिरसि न्यसेत् । शेषान् हस्ततलं यावत् तर्जन्यादिषु विन्यसेत्' । ओं नम इति वर्णं हस्ताङ्गुष्ठयोः हस्तयोः पादयोः शिखायां शिरसि च न्यस्व नाकारं तर्जन्योः राकारं मध्यमयोः यकारम् अनामिकयोः नाकारं कनिष्ठयोः यकारं For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy