________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
૪
श्रीपुरुषोत्तमतत्त्वम् ।
न त्यज्यते मया' । ब्रह्मपुराणे 'विरजे विरजा नाम ब्रह्मणा संप्रतिष्ठिता । तस्याः सन्दर्शने मत्र्त्यः पुनात्यासप्तमं कुलम् | खात्वा दृष्ट्वा तु तां देवीं भक्त्या पूज्य प्रणम्य च । नरः स्ववंशमुद्धृत्य मम लोकं स गच्छति । श्रास्ते वैतरणी नाम सर्वपापहरा नदौ । तस्यां स्नात्वा नरश्रेष्ठ सर्वपापैः प्रमुच्यते' । वैतरणौमधिकृत्य महाभारते 'आयातभागं सर्वेभ्यो
।
भागेभ्यो भागमुत्तमम् । देवाः सङ्कल्पयामासुर्भयाद्रुद्रस्य शाश्वतीम् । इमां गाथां समुद्धृत्य मम लोकं सगच्छति । देवायनं तस्य पन्थाः शक्रस्यैव विराजते । ब्रह्मपुराणे 'प्रास्त स्वयम्भुस्तत्रैव क्रोडरूपौ हरिः स्वयम् । दृष्ट्वा प्रणम्य तं भक्त्या नरो विष्णुपुरं व्रजेत्' तथा 'विरजायां मम चेत्रे पिण्डदान करोति यः । स करोत्यक्षयां तृप्तिं पितॄणां नात्र संशयः । मम क्षेत्रे मुनिश्रेष्ठ विरजे ये कलेवरम् । परित्यज्यन्ति पुरुषास्ते मोक्षं प्राप्नुवन्ति वै' । तथा 'नदी तत्र महापुण्या विन्ध्यपादविनिर्गता । चित्रोत्पलेति विख्याता सर्वपापहरा शुभा' | चित्रोत्पला महानदी । तथा 'सत्यं सत्यं पुन: सत्यं क्षेत्र तत्परमं महत् । पुरुषाख्यं सक्कदृष्ट्वा सागराम्भः सकनम्रुत: । ब्रह्मविद्यां सज्जना गर्भवासो न विद्यते' । पुरुषोत्तमक्षेत्रदर्शनसागरमरणब्रह्मविद्या जपानां प्रत्येकं गर्भवासाजनकत्वम् । कूर्मपुराणे 'तीर्थं नारायणस्यास्य स्नात्वा तु पुरुषोत्तमम् । अत्र नारायणः श्रीमानास्त े परमपूरुषः । पूजयित्वा परं विष्णुं तत्र स्नात्वा द्विजोत्तमाः । ब्राह्मणान् भोजयित्वा तु विष्णुलोकमवाप्नुयात् । श्राकाण्ड कल्पतरो वायुपुराणं 'धूतपापं तथा तीर्थं सुभद्रा दक्षिणस्तथा । गोकर्णो गजकर्णश्च तथाच पुरुषोत्तमः । एतेषु पितृतीर्थेषु श्राद्धमानन्त्यमश्रुते' । ब्रह्मपुराणे 'चक्रं दृष्ट्वा हरेरात् प्रासादो
।
For Private and Personal Use Only