SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपुरुषोत्तमतत्त्वम् । सच्चिदानन्द गोविन्दं नत्वा श्रीरघुनन्दनः । स्मृतितत्त्वे विधिं वक्तिक्षेत्रे श्रीपुरुषोत्तमे ॥ T अथ पुरुषोत्तमदर्शनविधानादि । तच ब्रह्मपुराणं पृथिव्यां भारतं वर्षं कर्मभूमिरुदाहृता । न खल्वन्यत्र मर्त्यानां भूमौ कर्म विधीयते । तवास्ते भारते वर्षे दक्षिणोदधिसंस्थितः । ओड्रदेश इति ख्यातः स्वर्गमोक्षप्रदायकः । समुद्रादुत्तरे तौरे यावद्विरजमण्डलम्' । तीर्थकाण्ड कल्पतरौ वामनपुराणम् 'उपोष्य रजनीमेकां विरजां स नदीं ययौ । स्नात्वा विरजसे तीर्थे दत्त्वा पिण्डं पितुस्तथा । दर्शनार्थं ययौ धीमानजितं पुरुषोत्तमम् । तं दृष्ट्वा पुण्डरीकाक्षमक्षरं परमं शुचिः । उपोष्य सतिला देया माहेन्द्र दक्षिणं ययौ' । उपोष्य स्थित्वा । तथा 'श्रादौ यद्दारु लबते सिन्धोः पारे अपूरुषम् । तदा लभस्ख दुर्टूनो तेन याहि परं स्थलम्' । अस्य व्याख्या सांख्यायनभाष्ये प्रादौ विप्रकृष्टे देशे वर्त्तमानं यहारु दारुमयपुरुषोत्तमाख्यदेवताशरीरं प्लवते जलस्योपरि वर्त्तते अपूरुष' निर्मातरहितत्वेन अपूरुषं तत् अलभस्ख दुर्दू नोहे होत: तेन दारुमयेन देवेन उपास्यमानेन परं स्थलं वैष्णवं लोकं गच्छेत्यर्थः । अथर्ववेदेऽपि 'श्रादौ यद्दारु प्लवते सिन्धोमध्ये अपूरुषम् । तदा लभस्ख दुर्द्वनो तेन या हि परं स्थलम्' । अत्रापि तथैवार्थः मध्ये तौरे । स्कन्दपुराणम् 'इन्द्रद्य मन प्रसन्नस्ते भक्त्या निष्कामकर्मभिः । उत्सृज्य वित्तकोटोस्तु यन्ममायतनं कृतम् । भङ्गोऽप्येतस्य राजेन्द्र स्थानं For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy