SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८ एकादशीतश्वम् । 1 कुर्यादलाभ इत्यादिवचनद्दयं कौर्म एवाभिहितम् । तत्र प्रकृतत्वात्र दशम्या युतामित्यस्यैवापवादकं विधायकञ्च कुया. दलाभ इत्यादि । एवञ्च संयुक्तैकादशौकरण विधानादलाभ इत्यत्राप्येकादश्या एव परदिनेऽलाभ इति प्रतायते न तु वयोदश्यां द्वादश्यामलाभे अनुपस्थितः । यदुक्तं पूर्णेवेत्येकवाक्यत्वं तदपि न भवदुक्तविषये पूर्णत्वायोगात् । तथाच सौरधर्मे 'आदित्योदयवेलाया प्रान, इर्त्तद्दयान्विता । सेकादशोति संपूर्ण विद्वान्या परिकीर्त्तिता' इत्यनेनैकादशौ पूर्णत्वस्य सूर्योदयप्राक्कालीन मुहर्त्तद्दयाम्बितत्वेन विशिष्याभिधानात् । स्कान्देऽपि 'प्रतिपत्प्रभृतयः सर्वा उदयादोदयाद्रवेः । संपूर्ण इति विख्याता हरिवासरवर्जिताः । अतस्तदुक्तपूर्णाविषये पूर्वाया विद्दत्वात् परेकादश्युपाया । कुय्यादलाभे संयुक्तामित्यनेन द्वादश्यामेकादश्यलामे संयुक्तां प्रातरर्कानवलोकनसमयविद्यां कुय्यात् अर्थावादभ्यामेकादशौलाभे तादृशविदां न कुय्यादित्यवगतेस्तत्र परोपोष्यति गम्यते । एतद्विषये 'षष्टिदण्डात्मिकायाय तिथेर्निष्क्रमणे परे । अकर्मण्यं तिथिमलं विद्यादेकादशों विना' इति सङ्गच्छते । तथा कालमाधवीये गारुड़म् । 'श्रादित्योदयवेलाया आरभ्य षष्टिनादिकाः । संपूर्णेकादशी नाम्र त्याज्या धर्मफलेप्स भिः । अत्रापि त्रयोदश्यां द्वादश्यलाभे एव परोपोष्य त्यवधेयं न चेत्तत्र पूर्वामुपोष्य परदिने एकादशीं द्वादश्याद्यपादमुत्तार्थ पारणं कुय्यादिति 'विद्या कादशी ब्राह्मा परतो द्वादशी न चेत्' इत्यादि प्रागुक्तवचनेभ्यः । अथैवं विद्वापूर्णयोर्व्यवस्थायासविशेष इति चेत् 'द्वादश्यां पारथालाभे पूर्णेव परिग्टह्यते' इत्यविशेषा हैष्णवे - नापि पूर्णोपोषा । अरुणोदयविदा तु द्वादशी पारणस्या 1 For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy