________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
छन्दोगहषोमर्गतत्त्वम्। ५४१ पौडम्बरौ ताममयो एषा पायसचरावपि न विरहा। ‘पयो: ऽनुकृतसारञ्च ताम्रपावे न दुथति' इति स्मृतिसागरसारकृतवचनात्। अतएव शारदातिलके। 'ततश्च संस्कृते वही गोक्षीरण चर पचेत् । अम्लेन क्षालिते पात्रे नवे ताम्रमयादिके' । दक्षिणोत्तराभ्यामिति दक्षिण उत्तर उपरि ययोः पाण्योस्ताभ्यां मुसलं गृहीत्वेति शेषः निःफलोकतान् विधा वितुषोकतान् कण्डनप्रच्छटनाभ्यामिति शेषः' पवित्रान्त. हितान् पवित्रमन्तर्हितं व्यवहितं येषां तान्। तेन चरुस्थाल्यामुत्तराग्रं पवित्र निक्षिप्य तण्डुलान् निक्षिपेत् कुशलशृतमिव कुश लेनात्र परिपाकनिपुणेन शृतं यथा न दग्ध भवति नातिक्लिन्नं न मन्दपक्क तथा स्थालोपाकं यथा स्यात् तथा अपयेत् अतएव छन्दोगपरिशिष्टं 'स्वशाखोक्तशः खिन्नो ह्यदग्धो कठिनः शुभः। न चाति शिथिल: पाचो न च वीतरसो भवेत्' वौतरसो गालितमण्डः। प्रदक्षिणमुदायुवनिति दक्षिणावतं यथा स्यात्तथा मेक्षणेनोई मौषदवघट्ट यन् मिश्रयन् युमिश्रण इत्यस्य रूपम्। गृतमभिधाय इति स्फुटितं चरुमाज्यसुवेणाप्लाव्य उदगम्नेरुत्तरस्याम् उहास्यो. तौर्य प्रत्यभिवारयेत् पुनघृतेन तथा सेचयेत् वृषोमर्गेत्यभिधारणहयात् पूर्वं ज्वलदङ्गारेण अवद्योतनमाह छन्दोगपरि. शिष्टम् 'अधिश्रितम् अवद्योत्व सुशृतं चाभिधारयेत्। पश्चात् पुनरवद्योत्य पुन: प्रत्यभिधारयेत्'। मेक्षणादीनां प्रमाणमाह छन्दोगपरिशिष्टम् ‘इनजातीयमिभाईप्रमाणं मेक्षणं भवेत्। वृत्तं वार्डच पृथ्वग्रमवदानक्रियाक्षमम् । इभाईप्रमाणं प्रादेशहयमिनस्य प्रमाणं परिकल्पितमित्युक्तं तदहम् 'एषैव दर्वी यस्तत्र विशेषस्तमहं ब्रुवे। दर्वी घालपृथ्वग्रा तुरीयेणास्तु मेक्षणम्। मुसलोदूखले वार्ने खायते सुदृढ़े
४६-क
For Private and Personal Use Only