________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
छन्दोगबषोत्मगतत्त्वम्।
३२८
युजस्य च। स्वर्भानुना चोपसृष्टे आदित्ये चन्द्रमस्यपि । सप्तावरान् सप्तपरानुत्सृष्टस्तारयेद् वृषः' । स्वर्भानुना राहुणा पोषणे रेवत्याम् अवरान् पुनादीन् परान् पित्रादौन् । विष्णुधर्मोत्तरे 'अश्वयुक् शुक्ल पक्षस्य पञ्चदश्यां नरेश्वरः । कार्तिकेऽप्यथवा मासि वृषोत्सर्गन्तु कारयेत् । ग्रहणे हे महापुण्य तथाचैवायनहये। विषुवहितये चैव मृताहे बान्ध. वस्य च। मृताहो यस्य यस्मिन् वा तस्मिन्नहनि कारयेत्' यस्य बान्धवस्य पिनादेः यस्मिनहनि मृताहस्तस्मिन्नित्यर्थः । अत्र च आश्विनौर्णमासी विधानात् पौष्ण आश्वयुजस्य चेति रेवतीयुक्तपौर्णमासी ग्राह्या एकश्रुतिमूलत्वकल्पना. लाघवात्। कालविवेकेऽपि अग्निपुगणम्। 'एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः। प्रेतलोकं परित्यज्य स्वर्गलोकं म गच्छति। आद्यश्राद्धे त्रिपक्षे वा षष्ठे मासि च वत्सर । घोत्सर्गश्च कर्त्तव्यो यावत्र स्यात् सपिण्डता। सपिण्डीकरणादूई कालोऽन्यः शास्त्रचोदितः'। यस्य प्रेतस्येति मामान्यतः श्रुतेः पिटभिन्नस्यापि वृषोत्सर्गः प्रतीयते। तथाच 'आत्मानञ्च पितृ शाथ पत्नी मातामहान् सुतान्'। इत्यादि. कार्णाजिनिवाक्यात् पुगतत्ववत् स्त्रीगतत्वेऽपि फलस्याव. गमात् स्त्रिया अपि वृषोत्सर्ग: अतएव विभिन्नगोत्राणामपि वषोत्सर्ग इति हैतनिण्ये मिथाः । एष्टव्या वहवः पुना यद्येकोऽपौत्यादिवचनन्तु पुत्रस्यातिशयत्वप्रतिपादनार्थमिति । अत्र वत्सर इत्यपादानाहिष्णुधर्मोत्तरीयमृताह इति पदं यूगसंवत्सरोयमृतिथिपरम् । अतएव वशिष्ठोक्तछन्दोगपरिशिष्टमपि।
अथ वृपोत्सग व्याख्यास्यामः । 'कार्तिक्यां पौर्णमास्यां अवस्यामाश्वयुज्यां दशाहे गते संवत्सरेऽतीते वेति' अत्र मृत.
For Private and Personal Use Only