SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जलाशयोत्सर्गतत्त्वम्। ५२५ 'गां सवत्सां समानीय सुशीलाञ्च पयस्विनीम्। कांस्योपदोहां वर्णशृङ्गों वस्त्रपुष्पादिमण्डिताम्। लाङ्गलन्यस्तहस्तोऽसौ यजमानः सबान्धवः । शनैः सन्तारयित्वा च आचायाय निवेदयेत्। कांस्योपदोहां कांस्यक्रोडाम् । कापिले 'अजले जलमुत्पाद्य यजमानः सभार्यकः। तरेह प्रामु खो भूत्वा धृतगोलाङ्गलाङ्गलिः' । इदं सलिलं पवित्रमिति मन्त्रण अवतार्यमानामनुमन्त्रयेत् । प्राङ्मुख: सन् अवतारयेत् सा च गौ: पश्चिमतोऽवताये। तत: कूलसमीपं गत्वा तर्पयेत् यथा कापिले 'पुन: पुच्छोदकेनाथ मतिलेन कुशेन तु । भुग्नेनैवापसव्येन पिटतीर्थेन तर्पयेत्। गताश्चात्र गमिष्यन्ति ये कुले मम बान्धवाः। ते सर्वे टप्तिमायान्तु मया दत्तजलेन वै। ततो मुञ्चामि मन्त्रेण मुञ्चह्नां वत्ससंयुताम्' । प्राचार्येण भन्वारब्धा उत्तीर्य प्रायोऽस्मान्मातरः शुन्धन्तु इति मन्त्रेणैशान्यां दिश्युस्थापयेत् । सुयवमा भगवतौह भूया इति ब्रूयात् हिङ्कारं यदि करोति तदा हिंकन्नतीति पठेत्। ततश्च उक्त विशेषणविशिष्टां तां धेनुमाचार्य्याय सामगाय दद्यात् । यथाशक्ति दक्षिणाञ्च दद्यात् एतत् पर्यन्तं कर्म कूपे न व्यक. हियतेऽसम्भवात् तत उत्सगं कुर्यात् जलाशयस्येति शेषः । अत्र विशेषमाह रत्नाकरकृतं मत्स्यपुराणं 'फलानि चिन्तय. न्मयो विविधानि शुभानि च। प्रदद्यात् सर्वभूतेभ्यो जलपूर्ण जलाशयम्'। कापिलम्। 'ततस्तत्पश्चिमं तौरं गत्वा पूर्वाननः स्थितः। जलोत्सगं प्रकुर्वीत सर्वभूतार्थकं ध्रुवम्' । सर्वभूतार्थकं सर्वभूतप्रयोजनकं सर्वभूतेभ्य उत्सृजेदित्यर्थः । देवपिटमनुष्या: प्रोवतामिति पडेदिति शेषः। उत्सृज्य यजमानो ब्राह्मणान् स्वस्तिवाचयोत दक्षिणाभिरिति शेषः । एततपर्यन्तं कूपेऽपि। जलाशयोत्सर्गस्य सर्वभूतोहश्यक त्वेन For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy