________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
દ્
एकादशीतत्त्वम् ।
द्वादशीविधेर्युक्त एव
तदा अनेनेव द्देवे एकादशीका हादभ्युपवासः । न चेदं व्रतान्तरमेव एकादशी संदंशपाठात् । अथवेत्यनेन पूर्वापेचितविधेश्च । 'पक्षहानौ स्थिते सोमे लङ्घयेह मोयुतां' इति वाच्यम् । उदयपूर्वकालीन दशमीयोगविषयम् । वचनान्तरबलादिति प्रपञ्चितं जितामित्रादिभिरित्याहुः । तथाच कालविवेकक्कृत्य महार्णवयोर्भविष्यपुराणम् । 'एकादशीं दशायुक्तां वर्द्धमाने विवर्द्धयेत । पञ्चहानी स्थित सोमे लङ्घयेद्दशमीयुताम्' इति । वर्द्धमाने सोमे शुक्लपचे | पक्षहानौ स्थिते सोमे कृष्णपचे । लङ्घयेत् उपवसेत् । 'पक्षमार्गस्थिते सोमे कुर्वीत दशमीयुतां' इति कालमाधवीयपाठे व्यक्त एवार्थः । केचित्तु । 'विद्याप्येका दशौ ग्राह्या परतो द्वादशौ न चेत्' इति 'मुहूर्तं द्वादशी न स्यात् त्रयोदश्यां यदा मुनं । उपोष्या दशमीविषा सर्वेरे का दशौ तदा' इति । ' त्रयोदश्यां यदा न स्यात् द्वादशीघटिकाइयम् । दशम्यैकादशी विडा सैवोपोष्या सदा तिथिः' इति मत्स्यकूर्मनारदीयवचनैः एवम्भूता दशमीविडेवोपोष्या वयोदश्यां द्वादशौनिर्गमे तु मुमुक्षुभिर्द्धादभ्युपोष्या सकामैस्तु अवापि दशमौविद्वैव । 'शुदेव द्वादशौ राजन्नुपोष्या मोचकाङ्क्षिभिः' । तथा 'निष्कामस्तु गृही कुर्य्यादुत्तरेकादशीं सदा । सकामस्तु सदा पूर्वामिति बौधायनोऽब्रवीत् ' इति विष्णु रहस्यवचनादिति वदन्ति । अत्र विद्याप्य का दशौत्यादिवचनानां नानादेशीय संग्रहकारष्टतनानावचनतत्तद्याख्यानात् अनुपदं विषयः स्फुटौभविष्यति । अनार्षविष्णुरहस्यवाक्यमपि उत्तरेकादशमित्यभिधानान्नोक्तविषयं किन्तु वक्ष्यमाणारुणोदयबेधविषयम् । यदपि 'कुर्य्यादलाभे संयुक्तां नालाभेऽपि प्रवेशिनीम् । उपोष्या द्वादशौ तत्र त्रयोदश्यान्तु
For Private and Personal Use Only