________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५१८
जलाशयोत्सर्गतत्त्वम् ।
कूपतड़ागादिदेवतायतनेषु च । श्रद्मप्रदानमारामापूर्त्त इत्यभिधीयते । अग्निहोत्रं तपः सत्यं वेदानामनुपालनम् | आतिथ्य वैश्वदेवञ्च दृष्टमित्यभिधीयते । ग्रहोपरामे यद्दानं पूर्त्तमित्यभिधीयते । इष्टापूर्त्तं दिजातीनां धर्मः सामान्य उच्यते । अधिकारी भवेच्छुद्रः पूर्त्तधर्मे न वैदिके' । वैदिक वेदाध्ययनसाध्येऽग्निहोत्रादाविति रत्नाकरः । एवं स्वौणामपि पूर्वाधिकारः । यथानात्यनुवृत्तौ वृहस्पतिः । 'पिट - व्यगुरुदौहित्रान् भर्तुः स्वस्रौयमातुलान् । पूजयेत् कष्यपूतभ्यां वृडानाधातिथौन् स्त्रियः' । एतेन जलाशयोसर्गादी गौरवतारणानुमन्त्रणयोर्यजमानकर्तृको मन्त्रपाठः । तवामन्त्रकतया स्त्रीशूद्रयोरनधिकारेण तद्दति यागेऽप्यनधिकारः । विशेषोपदेशविरहादिति हेतनिर्णयोक्त' निरस्तम् । मन्त्रपाठस्तु ब्राह्मणद्वारा 'अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रेण गृह्यते । इति वराहपुराणात् । श्रमन्त्रस्येति परिभाषया स्त्रीणामप्यधिकारः । श्रस्य पूर्त्तत्वादृद्धिश्राहमप्यादौ कत्तव्यम् । यथा गोभिल: 'वृद्धि: पूर्त्तेषु युग्मानाशयेत् प्रदक्षिणमुपचारः यवैस्तिलार्थ इति' । हयशौर्षपञ्चरात्रे 'वापीकूपतड़ागानां पश्चिमे यागकाण्डपम् । कुर्य्याद् यथाक्रमेणैव कन्य संमध्यमोत्तमम् । कन्य संदशहस्तन्तु कूपे शस्त्र तथानघ । दिषट्कं कारये द्वाभ्यां पुष्करिण्यां चतुर्दश । हिरष्टहस्तं कुर्वीत तड़ागमण्डपं शुभम्' । कन्यसङ्कनीयांसम् । सङ्कल्पविधिस्तु भविष्ये । 'गृहौलीडुम्बरं पात्रं वारिपूर्णमुदमुखः । दर्भवयं साग्रमूलं फल्लपुष्पतिलान्वितम् । जलाशयारामकूपे सङ्कल्पे पूर्वदिच्खः । साधारणे चोत्तरास्य एशान्यां तज्जलं क्षिपेत्' । मत्स्यपुराणे । 'प्रागुदक्प्लवने देशे तड़ागस्य समीपतः । चतुर्हस्तां शुभां वेदीं चतुरस्रां चतुर्मुखीस् । कारयेदिति शेषः ।
For Private and Personal Use Only