________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
जलाशयोत्सर्गतत्त्वम् ।
५१७
।
जेष्ठ वा माधवे तथा । माघे वा सर्वदेवानां प्रतिष्ठा शुभदा भवेत् । प्राप्य पक्षं शुभं शुक्कमतीते चोत्तरायणे । पुण्य ऽि विप्रकथिते कृत्वा ब्राह्मणवचनम् । अतीते प्रवृत्ते तथाच प्रतिष्ठा समुच्चये 'माघे च फाल्गुने चैव चैत्र वैशाखयोरपि । ज्येष्ठाषाढ़ कयोर्वापि प्रवृत्ते चोत्तरायणे । पुण्यऽह्नि अष्टमचन्द्रादिशून्य ब्राह्मणवाचनं पुण्याहस्वस्त्युद्धिवाचनम् । 'पञ्चमौ च द्वितीया च तृतीया सप्तमौ तथा । दशमी पौर्णमासी च तथा श्रेष्ठा त्रयोदशी । आसु प्रतिष्ठाविधिवत् कृता शुभफला अवेत्' । मात्स्य 'आषाढ़ द े तथा मूलमुत्तरात्रयमेव च । ज्येष्ठाश्रवणरोहिण्यः पूर्वभाद्रपदा तथा । हस्ताश्विनी रेवती च पुष्यो मृगशिरस्तथा । अनुराधा तथा स्वाती प्रतिष्ठादिषु शस्यते । बुधो वृहस्पतिः शुक्रस्त्रय एवं शुभावहाः एतन्निरीक्षितं लग्नं नक्षत्रञ्च प्रशस्यते । ग्रहताराबलं लब्ध्वा ग्रहपूजां विधाय च । निमित्तं सफलं ज्ञात्वा वर्जयित्वा तथा शुभम् । शुभयोगे शुभे लग्ने क्रूर ग्रहविवर्जिते । लग्न ऋते च कुर्वीत प्रतिष्ठादिकमुत्तमम् । अयने विषुवे तद्वत् षडशीतिमुखे तथा । सुराणां स्थापनं कार्य्यं विधिदृष्टेन कर्मणा' । भविष्ये 'प्रतिपञ्च द्वितीया च तृतीया पञ्चमी तथा । दशमी चयोदश चैव पौर्णमासी च कौर्त्तिता । सोमो बृहस्पतिचैव शुक्रचैव तथा बुधः । एते सौम्यग्रहाः प्रोक्ताः प्रतिष्ठायागकर्मणि' | प्रतिष्ठाधिकारे व्यवहारसमुच्चयः । 'कृष्णपक्षे च पञ्चम्यामष्टम्यामपि शस्यते' । दौपिकायां 'पुष्याविशुक्रभगदैवतवासवेषु मोम्यानिलेशमवरोहिणिमूत्तहस्ते । पौष्णानुराधाहरिभेषु पुनर्वसौ च काय्याभिषेकतरुकूपस्थ प्रतिष्ठा'। वसवो धनिष्ठा आर्द्रा । आर्द्रायाञ्चैव सोभाग्यमिति प्रतिष्ठासमुच्चयात् । बापौदानादीनां पूर्त्तत्वात् स्त्रीशूद्राधिकारे जातूकर्ण: । 'वापी
४४ क
For Private and Personal Use Only