SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जलाशयोत्सर्गत खम्। ५१५ विस्तराहद। कुयात् केन विधानेन कश्च वास्तुरुदाहृतः । इत्युपक्रम्य वाप्यादीनामप्यभिधानात् प्रादिपदात् कूपादेग्रहणम्। 'प्रासादेप्येवमेव स्यात् कूपवापौषु शस्यूते' इत्यभिधानाच तेन वाप्यादिकरणेऽपि वास्तुयागः । महाकपिलपञ्चरात्रं 'जलाधारग्रहार्थञ्च यजेहास्तु विशेषतः । ब्रह्माद्यदितिपर्यन्ताः पञ्चाशत्वयसंयुताः। सर्वेषां कुलवास्तूनां नायकाः परिकीर्तिताः। असंपूज्य हि तान् सर्वान् प्रासादादीब कारयेत् । अनिष्पत्तिविनाशः स्यादुभयोधर्मधर्मिणोः'। ब्रह्माद्यदितिपर्यन्ता इति कल्पान्तरम्। देवीपुराणोक्तशादिकल्पो व्यवड़ियते। धर्मधर्मिणोस्तड़ागादितत्कोः । तहिने तदकरणे उत्सर्गदिनेऽपि वाप्यादौ तत्करणम्। 'प्रासादभवनोद्यानप्रारम्भपरिवर्तने पुरवेश्म प्रवेशे च सर्वदोषापनु त्तये। इति वास्तूपशमनं कृत्वा सूत्रेण वेष्टयेत्। वास्तुयागमकुर्वाणस्तवाहारो भविष्यति'। इति मत्स्यपुराणवचने पुरवैश्म प्रवेशे वास्तुयागप्राप्तः पूर्वोक्तवचनेन प्रासादः धर्मातिदेशादवापि प्रासादप्रतिष्ठावत् वाप्यादिप्रतिष्ठादिने वास्तुयागकरणम् । दीपिकायां 'पुष्थामैत्रकरोत्तराखिवरुणब्रह्माम्बुपितेन्दुभैः। शस्तऽके शभयोगवारतिथिषु क्रूरेववौर्येषु च पुष्टेन्दौ जलराशिगे दशमगे शुक्र शुभांशोदये प्रारम्भः सलिलाशयस्य शुभदो जीवेन्दुपुत्चोदये। तैः पुष्यानुराधाहस्तोत्तरावयाखिनीशतभिषारोहिणीपूर्वाषाढ़ामघामगशिरोभिः। मात्य। 'चन्द्रादित्य बलं लब्ध्वा लग्नं शुभनिरीक्षितम्। स्तम्भोच्छायादिकर्तव्यमन्यत्र परिवर्जयेत्। अखिनौरोहिणीमूल मुत्तरावयमैन्दवम् । स्वातीहस्तानुराधा च गृहारम्भे प्रशस्यते। वज्रव्याघातशूले च व्यतीपातातिगण्डयोः । विष्कम्भ गण्डपरिघ वर्ज योगेषु कारयेत्। For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy