________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५१४
जलाशयोत्सर्गतत्त्वम्।
जलाधारपरं न तु उपरितटपरम् । नव्यबईमानतो वशिष्ठः। 'शतेन धनुर्भिः पुष्करिणी। त्रिभिः शतैर्दीर्घिका। चतुर्भि द्रोण: पञ्चभिस्तड़ागः। द्रोणाशगुणा वापी' इति संहिता. यामन्तरपदश्रुतेरत्रापि तथावगम्यते। तेन चतुर्दिक्षु पञ्चः विंशहस्तान्य नतायां हादशंशतहस्तान्तरान्य नत्वेन दीर्घिका। चतुर्दिक्षु चत्वारिंशहस्तान्यूनतायां षोड़शशतहस्तान्तरान्यूनखेन द्रोणः । चतुर्दित्तु विशदधिकशतहस्तान्यूनतायां षोड़शसहस्रहस्तान्तरान्यूनत्वेन वापी। करोऽत्र कफोण्यपक्रम. मध्यमाङ्गल्यग्रपर्यन्तः तथाच कल्कतरुरत्नाकरयोः। 'मध्यमाङ्गलिकुपरयोर्मध्यः प्रामाणिकः करः'। तत्करणफलमाह आदित्यपुराणम्। 'सेतुबन्धरना ये च तीर्थशौचरताच ये। तड़ागकूपकारो मुच्यन्ते ते षाभयात्'। सेतुर्जलधारण हेतुर्धन्धः। तीर्थशौचं घट्टकपरिष्कारः तेन सेतुबन्धघट्टपरिष्कारतड़ागादौनां करणे प्रत्येकं बड़ भयेमाचनं फलं विष्णुः ‘अथ कूपकर्तस्तत्प्रवृत्ते पानौये दुष्कृताई विनश्यतौति'। तत्प्रवृत्ते कूपास्थिते। विष्णुधर्मोत्तरे 'तड़ागकूपक रस्तथा कन्याप्रदायिनः। छत्रोपानहातारस्त नराः खगंगामिनः'। तोयं विना सङ्कचितप्राणिदेशे तु नन्दिपुराणं 'यो वापीमथवा कूपं देशे तोयविवर्जिते। खनयेत् स दिवं याति विन्दौ विन्दौ शतं समाः'। ततश्च वाप्यादिखनने प्रत्येकजलविन्दुसमसंख्यशतवर्षावच्छिवस्वर्गप्राप्तिः फलम् । एतत् सङ्कल्पानन्तरं वास्तु यागसङ्कल्पः कार्यः । विष्णुः 'कूपारामतड़ागेषु देवतायतनेषु च। पुनः संस्कारकर्ता तु लभते मौलिकं फलम्। संस्कारविधौ तु अजले जलमुत्पाद्य इति वच्खमाणवचनात् जलशून्यदेशखनन एव प्रतिष्ठा न तु पकोडारमाव। मस्यपुराणे। 'प्रासादभवनादीनां विशेष
For Private and Personal Use Only