SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५०४ देवप्रतिष्ठातत्त्वम्। दशौ खनङ्गस्य शिवस्योक्ता चतुर्दशी। मम चैव मुनिश्रेष्ठ पौर्णमासी तिथिः स्मृता'। चक्रपाणिन इति पणव्यवहार इत्यस्मास्मिन् प्रत्ययः 'महिषासुरहन्वयाश्च प्रतिष्ठा दक्षिणायने। कल्पतरौ देवीपुराणं 'यस्य देवस्य यः कालः प्रतिष्ठाध्वजरोपणे । गर्तापूरशिलान्यासे शुभदस्तस्य पूजिता' । यस्य देवस्य प्रतिष्ठाध्वजरोपणे यः कालः शुभदस्तस्य गर्त्तापूरशिलान्यासे गृहारम्भे स काल पूजितः इत्यर्थः । प्रतिष्ठासमुच्चये। 'माघेऽथ फाल्गु ने वापि चैत्रवैशाखयोरपि। ज्येष्ठाषाढकयोर्वापि प्रतिष्ठा शुभदा भवेत् । भविथ। 'सोमो वृहस्पतिश्चैव शुक्रश्चैवस्तथा बुधः। एते सौम्यग्रहा: प्रोक्ताः प्रतिष्ठा यज्ञकर्मणि'। एतद्दारेषु कर्तव्या इत्यर्थः। मत्स्यपुराणम्। 'आषाढ़ हे तथा मूलमुत्तरात्रयमेव च। ज्येष्ठा श्रवणरोहिण्यः पूर्वभाद्रपदस्तथा। हस्ताखिनी रेवती च पुष्यो मृगशिरस्तथा। अनुराधा तथा स्वाती प्रतिष्ठादिषु शस्यते'। दीपिकायां प्राजेशवासवकरादिति भाश्विनौषु पौष्णामरेज्यशशिभेषु तथोत्तरासु। कर्तः शुभे शशिनि केन्द्रगते च जौवे काया हरेः शुभतिथौ विधिवत् प्रतिष्ठा'। देवीपुराणम् । 'यथा हादशगे जोवे अष्टमेवाथ भास्करे। प्रतिष्ठा कारिता विष्णोर्महाभयकरी मता' । कल्पतरौ देवीपुराणम्। 'चतुर्वर्णैस्तथा विष्णुः प्रतिष्ठाप्यः मुखार्थिभिः'। कालिकापुराणम्। 'प्रतिमायाः कपाली हौ स्पृष्ट्वा दक्षिणपाणिना। प्राणप्रतिष्ठां कुर्वीत तस्यादेवस्य वा हरेः। अकृतायां प्रतिष्ठायां प्राणानां प्रतिमासु च। यथापूर्व तथाभावः वर्णादीनां न विष्णुता। अन्येषामपि देवानां प्रतिमासु च पार्थिव । प्राणप्रतिष्ठा कर्तव्या तस्यां देवत्व. सिद्धये। प्रतिष्ठा ब्राह्मणहारैव कर्तव्या। तथा हयशीर्ष For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy