SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवप्रतिष्ठातत्त्वम् । ५०३ ब्रह्मणो रूपकल्पना' । रूपल्पकना रूपस्थानां देवतानां पुत्र्य' शादिकल्पना | गौतमीयतन्ते । 'काश्मरी ज्ञानदा प्रोक्ता स्वर्णजापि विमुक्तिदा । तेजोदा दारुजा चैव रैत्तिको शत्रुनाशिनी । ताम्रीधर्मविवृद्धिञ्च करोति बहुसौख्यदा । मृदैव मृण्मयी प्रोक्ता प्रतिमा शुभलक्षणा । भोगदा मोक्षदा सा तु प्रतिमा कथिता तव' । वराहपुराणे । 'कुड्य लेख्ये च मे कश्चित् पटे कश्चिश्च मानवः । पूजयेद यदि वा चक्रे मम तेजोऽशसम्भवे' । कुड्य लेख्ये भित्तौ लिखिते तथा पटे च लिखिते चक्रे शालग्रामचक्रे । मत्स्यपुराणे लिङ्गमभिधाय " एवं रत्नमयं कुय्यात् स्फाटिकं पार्थिवं तथा । शुभदारुमयो बापि यद्दा मनसि रोचते । चैत्र वा फाल्गुने वापि ज्येष्ठेत्र वा माधवे तथा । माघे वा सर्वदेवानां प्रतिष्ठा शुभदा भवेत् । प्राप्य पक्षं शुभं शुक्लमतौते चोत्तरायणे' । अतीते वृत्ते 'पञ्चमौ च द्वितीया च तृतीया सप्तमी तथा । दशमी पौर्णमासी च तथा श्रेष्ठा त्रयोदशौ । तासु प्रतिष्ठा विधिवत् कृता बहुफला भवेत्' । व्यवहारसमुच्चये । 'प्रतिष्ठा सर्वदेवानां केश. वस्य विशेषतः । उत्तरायणमापने शुक्लपचे शुभे दिने । कृष्णपचे च पञ्चम्याम् अष्टम्याञ्चैव शस्यते' । भुजबलभौमे । 'युगादावयने पुण्ये कर्त्तव्या विषुवदये' । चन्द्रसूर्यग्रहे वापि दिने पुण्येऽथ पर्वसु । या तिथिर्यस्य देवस्य तस्यां वा तस्य कौर्त्तिता । ग्टह्यागमविशेषेण प्रतिष्ठा मुक्तिदायिनौं । पद्मपुराण | 'प्रतिपडनदस्योक्ता पवित्रारोहणे तिथिः । श्रियो देव्या द्वितीया च तिथीनामुत्तमा स्मृता । तृतीया तु भवाम्याथ चतुर्थी तत्सुतस्य च । पञ्चमी सोमराजस्य षष्ठौ प्रोक्ता गुहस्य च । सप्तमौ भास्करे प्रोक्ता दशमौ वासुकेस्तथा । एकादशी ऋषीणाञ्च द्वादशी चक्रपाणिनः । वयो For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy