________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवप्रतिष्ठातत्त्वम् ।
दयेत्। तान्येव दक्षिणार्थन्तु दद्याहिप्रेषु सर्वदा' इति वचनात् पिटपक्ष एव द्राक्षामलकमूलानि दक्षिणाभिधीयते । दैवपक्षे तु पार्षणप्राप्तकाञ्चनमेव दक्षिणा। 'हिरण्यं विश्खेदेवेभ्यो रजतं पिलभ्योऽन्यच्च गोकृष्णाजिनादिकं यावच्च शक यात्' इति नव्यवईमानतपारस्करवचनात्। ततश्च देवपक्षेऽपि द्राक्षादिदक्षिणादानं वाचस्पतिमित्रोक्तं हेयम् । पिटपक्षे रजतस्यामाङ्गलिकत्वात्तत्त्यागात् द्राक्षादिविधानम् । युक्तमिति। इति श्रीरघुनन्दनभट्टाचार्यविरचितं यजुर्वेदि
श्राद्धतत्त्वं ममाप्तम् ।
देवप्रतिष्ठातत्त्वम् ।
प्रणम्य कमलाकान्तं नारायण मनावृतम् । प्रतिष्ठां देवतानाच वक्ति श्रीरघुनन्दनः । मत्स्यपुराणम्। 'सौवर्णी राजतो वापि ताम्री रत्नमयो तथा। शैलदारुमयो वापि लौहशङ्खमयो तथा। रीतिका धातुयुक्ता च ताम्रकांस्यमयौ तथा। शुभदारुमयौ वापि देवतार्चा प्रशस्यते। अङ्गुष्ठपर्व चारभ्य वितस्ति यावदेव तु । महेषु प्रतिमा कार्य्या नाधिका शस्यते बुधैः'। रीतिका पित्तलं शुभदारुमयौ यजौयकाष्ठसम्भवा। अर्चा प्रतिमागृहेषु स्वग्रहेषु। प्रासादेषु अधिका शुभतिवचनात् तत्रा. धिकापि शैलजा रहे शुभदा तन्त्रान्तरेऽप्युक्ता। 'चिन्मयस्थाहितीयस्य निष्फलस्त्राशरीरिणः । उपासकानां कायार्थ
For Private and Personal Use Only