________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यजुर्वे दिवाचतत्त्वम्। मिति विशेषणपदविधेर्विशेष्याकाकायाम् प्रकृतत्वात आहे दत्तस्यैवान्वयात्। अत्र चतुर्थी सम्बुद्धन्तपदप्राप्तौ षष्ठयन्ता. भिधानं वाचनिकम्। नान्दोमुखाः पितरः प्रौयन्तामित्वक्षय्यस्थाने इनि वृद्धिाऽऽक्षय्यवाचनस्थाने नान्दोमुखा इत्यादिविधरक्षय्यनिवृत्तौ विशेष्याकाझाविरहात् दत्तमिदमित्यादेराकासितस्यान्वये मानाभावात् तदन्वयिषष्ठयन्तसम्बु. यादिपदानामपि निवृत्तिः अतएव नान्दोमुखाः पितरः प्रौयन्तामिति वाचयेदिति ब्रह्मपुराणवचनेनापि अक्षय्यस्थाने नान्दोमुखा इत्यादिवचनं विशेषाभिधानेन पदाहवनौयन्यायेन सामान्याक्षय्यवाक्यवाधकमिति वाच्यम्। न चैव. मेकोद्दिष्टेऽपि उपतिष्ठतामित्यक्षय्य स्थाने इति पारस्करदर्श. नात्। अत्रापि षष्ठयन्तप्रयोगो मास्त्विति वा तत्र उपतिष्ठतामित्युक्तः किमित्याकाङ्क्षायामक्षय्यवदुपस्थितस्य दत्तमिदमित्यादेरन्वये सम्बन्धितया षष्ठान्तस्यापि आकाशितत्वात् न च प्राकृतेऽपि तथा विखे देवाः प्रौयन्तां नान्दोमुखाः पितरः प्रौयन्तामित्यादि खधावाचनस्थानीयवत्तन्मात्रेणैवा. भिधानपर्यवसानात् षष्ठैरव नित्यमित्यत्र नित्यपदच नान्दी. मुखप्रकरणपठितत्वेन न तु तन्मात्रपरं किन्तु पार्वणादिपरम् । एतत् परमुत्तराई पार्वणेऽपौति निबन्धारः । न च अध्येऽक्षय्योदके चैवेत्यादिवचनविषयत्वेन कुतस्तन्वता इति वाच्य लाघवस्यैव बाधासहकृतस्य तन्त्रतासाधकत्वात् एतेनाक्षय्योदकं दत्त्वा नान्दोमुखाः पितरः प्रोयन्तामिति। पिटब्राह्मणकरे जलं दद्यादिति श्रीदत्तादिलिखितं चिन्त्यमिति श्राद्धचन्द्रि. कायां गुरुचरणाः। नान्दोमुखानिति स्वधां वाचयिष्य इत्यस्य स्थाने नान्दीमुखान् पिटन वाचयिष्ये इति पिटभ्यः खधोच्यतामित्यादिस्थाने नान्दोमुखाः पितर इत्यादि।
For Private and Personal Use Only