________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८६
यजुर्वेदिश्राद्धतत्त्वम् ।
यहिसर्जनमुक्त तत् प्रेतबाइविषयकमिति श्रीदत्तवाचस्पतिमिश्रप्रभृतयः। तन्न वहृचानामेव पार्वणे अभिरम्यतामिति विसर्जनस्य प्राप्तत्वात् सर्वशाखिनिषेधानुपपत्तेः अभिरम्यता. मिति विसर्जनमभिधाय एतत् प्रेतश्राद्धमिति गोभिलेनाभिधानाच अपरे ब्राह्मणा अमिरता: स्म इति प्रत्यत्तरं ब्रूयुः ।
अथ सपिण्डीकरणम्। तत्र कात्यायन ग्रह्य ततः संवत्सरे पूर्णं चत्वारि पात्राणि मतिलगन्धोदकानि नौणि पितृ. णामेकं प्रेतस्य प्रेतपान पिटयावेषु आसिञ्चति'। ये ममाना इति हाभ्याम् एतेनैव पिण्डो व्याख्यातः । ततो बादशमासिककोद्दिष्टानन्तरं पूर्णे संवत्सरे प्रथमसंवत्सरान्तमृततियो चत्वारि इति मातामहपक्षव्यदासाथ प्रेतपात्रं प्रेतपानस्थजलं पिटपात्रेषु पिटपात्रस्थजलेषु। हाभ्यां मन्त्राभ्याम् एतेनाय जलसमन्वयप्रकारेण पिण्डः पिण्ड समन्वयो व्याख्यात: कथितः कात्यायनभाष्यकन्नीलाम्बरधृता काठकीय श्रुतिः। 'दत्त्वा पिण्डान् पिटभ्यः पश्चात् प्रेतस्य पार्वतः। तच पिण्ण्ड विधा कृत्वा प्रानुपूर्त्या च सन्ततम्। विदध्यात्रिषु पिण्डेघु एवं संसर्जने विधिः' संसर्जने मिश्रणे अत्र तीगि पितृणामेकं प्रेतस्य इति कात्यायनगृह्ये पाठकमात् । 'श्राइडयमुपक्रम्य विदधौत सपिण्डताम्। तयोः पार्वणवत् पूर्वमेकोद्दिष्टमधापरम्' इति परिशिष्ट प्रकाशकृतवचने पावणैकोद्दिष्टयोः पौर्वापयस्य शाब्दक्रमाच्च देवपक्षकत्यं ततः पिटपक्ष कृत्यं ततः प्रेतपक्ष कृत्यमिति 'प्रेतविप्रस्य हस्त तु चतुर्भागं जलं क्षिपेत्। ततः पितामहादिभ्यस्तन्मन्त्रैश्च पृथक् पृथक्' इति ब्रह्मपुराणे उत्सृष्टाध्य जलसमन्वये शाब्दक्रमानुरोधेन प्रेतादित्वस्य च विशेषतो विधानात् सामगवाजसनेयिनोरपि अय॑जलोत्सर्ग एव प्रेतादित्वम्। यत्तु असपिण्डीकरणं संवत्सरम् एकं पिण्ड मनुद्दिश्य
For Private and Personal Use Only