________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यजुर्वे दिवाइतक्वम्।
४२५ ब्राह्मणाय दक्षिणां दद्यात्। विश्वे देवाः प्रौयन्तामिति दैवे ब्राह्मणान् पृच्छत् ते च प्रोयन्तामिति ब्रूयुः। विसृज्य आदी पितृन् पश्चाद्देवानिति शेष: अनुव्रज्य ब्राह्मणानिति शेषः । प्रविशेद गृहमिति शेषः ।
अथ एकोद्दिष्टम्। तत्र कात्यायनगृह्यम्। 'अथ एको. द्दिष्टम् एकोऽध्य : एक पवित्रम् एकः पिण्डो नावाहनं नाग्नौ करणं नात्र विश्वे देवा: स्वदितमिति टप्तिप्रश्ने सुवदितमिति अनुज्ञानम् उपतिष्ठतामिति अक्षय्यस्थाने अभिरम्यतामिति विसर्गः अभिरताः स्म इत्यपरे इति'। अस्यार्थः अथेति पानन्तर्यवचनं विशेषतरत्र पार्वण विधेरनुकर्षणार्थम् एको. द्दिष्टमिति वक्ष्यमाणेतिकर्त्तव्यताकमेकं प्रेतमुद्दिश्य यत् क्रियते श्राद्धं तदेकोद्दिष्टम् एकम् एकदलरूपं पवित्रम् अतएव सायनाचार्येण पवित्रासि वैष्णवीति विकृत्य छेदनमन्त्रो लिखितः । नावाहनमिति पत्र कात्यायनेन अावाहने तिलविकरणानन्तरं जप्यत्वेनाभिधानात् आयान्तु नः इत्यस्य एकोद्दिष्टे वाजसनेयिनां निवृत्तिर्नास्ति गोभिलेन आवाहने एवायं मन्त्रः कथित इति छन्दोगानामेकोद्दिष्टे निवर्त्तते इति श्रीदत्तः। तत्र गोभिलेन तादृशपाठादर्शनात् किन्तु आवाध आयान्तु न इति कात्यायनेन तुल्य एव गोभिलेऽपि सर्वत्र पाठो दृश्यते । ततश्च छन्दोगानामिव आवाहननिषेधे जप्यस्यायान्तु इत्य. स्थावाहनप्रकाशकस्यापि वाजसनेयिनां बाधः । यता:स्थ इत्यत्र खदितमिति सप्तिप्रश्नः अनुज्ञानं प्रत्युत्तरम्। अक्षय्यमस्त्वि. त्यत्र उपतिष्ठतामिति वदेत् वाजे वाजे इति मन्त्रस्थाने अभि. रम्यतामिति विसर्जनम् आखलायनगृह्यपरिशिष्ट प्रेतश्राद्धेषु सर्वेषु न स्वधा नाभिरम्यताम्। वस्त्यस्तु विसृजेदेवं सतत् प्रणववर्जितमिति। एकोद्दिष्टे प्रणववर्जितं स्वस्तीत्यनेन
For Private and Personal Use Only