________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८३
यजुर्वेदित्रारतत्त्वम्। पाचामेदित्यर्थः। ततो नमो व इति षड़नलिकरणम् प्रोम् नमो वः पितरः शुष्माय ओम् नमो वः पितरस्तपसे । भोम् नमो वः पितरो यज्जीवं स्तमौ ओम नमो वः पितरो रसाय प्रोम् नमो वः पितरी घोराय मन्यवे प्रोम खधायै वः पितरो नमो व इति काण्डशाखिनां पाठः। अस्यार्थः हे पितरो वो युमभ्यं नमः शुष्माय शोषकारिणे ग्रीष्मायेत्यर्थः हे पितरो वो युष्मभ्यं नमः तपसे तप इति माघमासस्य नाम तेन माघफाल्गुनात्मकशिशिर ऋतोरेकदेशोद्भावनेन तस्यैव नमस्कारः क्वत: है पितरो यज्जीवं जलं युमभ्यं तौ वर्षा ऋतवे नमः हे पितरो युष्मभ्यं नमः रसाय पुष्परसाय अनेन वसन्तस्य नमस्कारः कत: हे पितरो युमभ्य नमः घोराय मन्यवे शीतत्वात् हेमन्ताय प्राणिनां भयहेतुत्वेन घोराय मन्यवे क्रूद्धाय यथा क्रूरः कश्चित् दुःखं जनयति तथायमपि शोतो दुःखं जनयतीत्यर्थः। हे पितरो युमभ्यं नमः स्वधायै शरदे । यथा श्रुतिः खधाशरत्स्वधायै पितृणामनमिति ब्राह्मणसर्वस्त्रे हलायुधः । एवञ्च शुभायेत्यादिना ऋतुनमस्कार सिद्धे यजुवें दिनां न वसन्तायेति पाठः प्रतीयते एककार्यकारित्वात् प्रतएव मैथिलपद्धतिरपि तथैव एवं ग्रीमशिशिरवर्षावसन्तहेमन्तशरद्रूपतया पितृनमस्कृत्य एतहः पितरो वास इत्यनेन शुक्लवस्त्रदशाभवं सूत्रं दद्यात्। माध्यन्दिनशाखिनान्तु श्रोम् नमो वः पितरो रसाय ओम नमो वः पितरः शोषाय ओम नमो वः पितरो जीवाय ओम् नमो वः पितरः खधायै ओम् नमो वः पितरो घोराय ओम् नमो वः पितरो मन्यवे इति वसन्ताय षडतुरूपतया पितृनमस्कृत्य प्रोम् नमो वः पितर इति कव्यवाहनादिरूपतया पितृनमस्कृत्य ओम् नमो वो यहान्नः पितरो दत्त इति पितॄन वरं प्रार्थयेत् प्रोम्
For Private and Personal Use Only