SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८६ यजुर्वेदिश्रावतत्त्वम् । गन्धपुष्पधूपदीपच्छादनानां सम्प्रदानमिति । एषामर्थः देवपूर्वं यथा स्यात्तथा सर्व कर्त्तव्यं पिण्डपितृयज्ञवदुपदेशेन पिवेत्र कर्मणि अपराह्न कालप्राचीनावीतित्वदक्षिणामुखत्वा प्रादचिख्यलाभः । द्विगुणा एव दर्भाः प्रकृतत्वात् पित्रा एव दैव पित्रोर्यद्दीयते तत् पवित्रपाणिरुपविष्ट एव दद्यात् दर्भाः पवित्रमित्युक्तमिति छन्दोगपरिशिष्टात् । प्रश्न प्राप्त पंक्तिश्रेष्ठं पृच्छेत् श्रासनेषु कुशानास्तौर्य तेषु कुणब्राह्मणानुपकेशयेदिति शेषः । यवान् ग्टहीत्वा ओम् विखान् देवानावाहयिष्य इति देवब्राह्मणं पृच्छति ब्राह्मणेनैवाहयेत्यनुज्ञातः सन् यजमानः विश्वेदेवा स आगत इत्यादिनिषोदतेत्यन्तेनावाल आवाहनेत्यनुज्ञातो विश्वेदेवास इत्युचा । यवैरन्ववकौय्याथभाजने सपवित्रके इति याज्ञवल्कयवचनात् यवान् विकीर्य विश्वेदेवाः शृणुत इत्यादिमादयध्वमित्यन्त ं जपेत् । ततः पितृनावाहविष्ये इति पृच्छेत् श्रावाहयेत्यनुन्नात उशन्तस्त्वत्यादि अत्तवे इत्यन्तेनावाद्य उशन्तस्त्रे त्यादि जपन् पितृनावाहयेत्ततः 'ततस्तिलान् गृहौत्वास्मिन् विकिरेदप्रदक्षिणम् । श्रद्धया परया युक्तो जपन्नपहतेति च' इति ब्रह्मपुराणात् अपहतेत्यादि वेदिषद इत्यन्तेन तिलान् विको आयान्तु न इत्यादि अवन्त्वस्मानित्यन्त जपेत् । एकैकस्मिन्निति वचनात् शन्नो देवीरित्यस्य तिलोऽसीत्यस्य च प्रेतार्घ्यपात्रेषु चवृत्तिः मन्त्रप्रकाश्यजलादेः प्रत्येकं प्रक्षेपश्च । ननु एकैकस्मिन्नित्यनुवर्त्तते तत् कथं पुनरेकेकस्मिन्नेवेत्यनेन सत्यं पितॄनिति बहुवचनात् अनावृत्तेनैव मन्त्रेण सर्वपात्रेषु तिलप्रक्षेपः स्यादिति पुनरुच्यते अतएव अत्र एव कारः एकैकेनैवेति मन्त्रलिङ्गात् न तन्त्रेण एवञ्च एकैकस्मिदेव बहुवचनमदृष्टार्थम् । ta देवपचे यवोऽसीति यव For Private and Personal Use Only -
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy