________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७४
कृत्यतत्त्वम्।
पञ्च नैरुज्यं कुरुष्व मम बालके। जननी सर्वभूतानां सर्वविघ्नक्षयंकरो। नारायणस्वरूपेण मत्पुत्रं रक्ष सर्वतः । भूतदैत्यपिशाचेभ्यो डाकिनौम्योऽपि सङ्कटात्। सुतं मेऽद्य शुभं दत्त्वा रक्ष देवि नमोऽस्तु ते'। इति प्रणमेत्। ततो वरं प्रार्थयेत्। 'रूपं देहि यशो देहि भाग्यं भगवति देहि मे। पुत्रान् देहि धनं देहि सर्वान् कामांश्च देहि मे। इति रुद्रधरः। मन्थानमन्दरपूजनानन्तरम् । कार्तिकेयं संपूज्य प्रणमेत्। 'कार्तिकेय महाभाग गौरौहृदयनन्दन !। कुमार रक्ष मे पुत्रं गङ्गहस्त नमोऽस्तु ते । ततो जन्मदां पाद्यादिभिः संपूज्य प्रणमेत्। ओम् ‘या जन्मदेतिविख्याता शुभदा भुवि पूजिता। करोतु सर्वदा रक्षां बालस्य सूतिकारहे। ततो योगिनौडाकिनौराक्षसौजालहारिणोबालघातिनीघोरापिशिताशनावसुदेवदेवकोयशोदानन्दान् संपज्य व्यजने वस्त्रोपरि बालकं क्त्वा षष्ठया: पाद समर्पयेत्। 'जननी सर्वभूतानां लोकानां हितकारिणी। व्यजनस्थ रक्ष पुत्रं तव पादे समपितम्। तत एभिमन्बालस्य सर्वाङ्ग हस्तेन स्पृशेत् । 'माथुरं मङ्गलं यच्च विष्णोरतुल तेजसः। हरस्य मङ्गलं यच्च सवें भवतु मे सुते। रक्षां करोतु भगवान् बहुरूपी जना. दनः। वराहरूपधृग्देवः शिशु रक्षतु केशवः। नखार्यो विदारितवैरिवचः स्थलो हरिः। नृसिंहरूपी सर्वत्र स त्व रक्षतु केशवः । शिरस्ते पातु गोविन्दः गण्डं रक्षतु केशवः । गुदं सजठरं पातु जङ्घाव जनार्दनः। स्कन्धं बाहुं प्रवाहुञ्च मनः सर्वेन्द्रियाणि च'। ततो हरेादशनामानि वस्त्र लिखित्वा शिशोः शिरसि दद्यात्। तद् यथा केशव अच्युत पद्मनाभ गोविन्द त्रिविक्रम हशोकेश पुण्डरीकाक्ष वासुदेव नारायण नरसिंह हयग्रीव वामन । १२ । ततः त्रिलोचनां
For Private and Personal Use Only