SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ત્ 'एकादशीतत्त्वम् । र्नित्य' विसुवतोर्द्वयोः । चन्द्रार्कयोर्ग्रहणयोर्व्यतीपातेषु पर्वसु । अहोरात्रोषितः स्नानं दानं होमं तथा जपम् । यः करोति प्रसन्नात्मा तस्मादप्यचयञ्च तत्' । इति ब्रह्मपुराणोक्त पूर्वदिनोपवासानन्तरं संक्रान्त्यां प्राप्तमिति । अथ पूर्णतिथिलचणम् । स्कन्दपुराणे । 'प्रतिपत्प्रभृतयः सर्वा उदयादोदयाद्रवेः । संपूर्णा इति विख्याता हरिवासरवर्जिताः । हरिवासर एकादशी । श्रतएव सौरधर्मे । 'श्रादित्योदयवेलायाः प्राङ्मुहर्त्तदयान्विता । सैकादशोति संपूर्णा विद्वास्या परिकीर्त्तिता' । अव तिथेरुदयानन्तरावस्थितावपि यदुदयात् प्राक् संपूर्णत्वकौर्त्तनं तदुदयानन्तरं तत्तिथेः सत्त्वेऽपि अशुत्वेन कर्मानर्हत्वादसत्त्वख्यापनाय । तथाच कालमाधवीये नारदीयम् 'आदित्योदय वेलाया आरभ्य षष्टिनाड़िका । तिथिस्तु सा हि शुद्धा स्यात् मार्वतिष्या हायं विधिः । सूय्यसिद्धान्तेऽपि । 'सर्वा ह्येतस्य तिथय उदयादोदयस्थिता । शुद्धा इति विनिश्वेयाः षष्टिनड्यो हि वै तिथि:' । एतस्य रवेः । कालविवेके । षष्टिदण्डात्मिकावाय तिथेर्निष्क्रमणे परे । अकर्मण्यं तिथिमलं विद्यादेकादशीं विना' । अथ पूर्णेकादश्युपवासः । प्रचेताः । 'पूर्णान्येकादशी त्याज्या वर्धते द्वितयं यदि । द्वादश्यां पारणालाभे पूर्णेव परिगृह्यते' । द्वितयमेकादशौद्दादश्यौ । भृगुः । 'संपूर्णेकादशी यत्र प्रभाते पुनरेव सा । अत्रोपोष्या द्वितीया तु परतो द्वादशौ यदि । विष्णुधर्मोत्तरे वृहद्दशिष्ठसंहितायाच्च । 'संपूर्णेकादशौ यत्र प्रभाते पुनरेव सा । लुप्यते द्वादशौ तस्मिन् उपवासः कथं भवेत् । उपोष्ये हे तिथौ तत्र विष्णुमौनतत्परः' । एवमेष गरुड़े । मध्याईमेवम् । 'वयोदश For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy