________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
खात्यतत्वम् । चिरजीविनम् । मार्कण्डेय नरो भतया ध्यायेत् प्रयतमानसः' । प्रार्थनन्तु 'चिरजीवी यथा त्वं भो भविष्यामि तथा मुने !! रूपवान् वित्तवांश्चैव त्रिया युक्तश्च सर्वदा। मार्कण्डेय महा. भाग! सप्तकल्पान्तजीवन। आयुरिष्टार्थसिमर्थमस्माकं वरदो भव'। ओम् व्यासाय नम: ओम् परशुरामाय नमः ओम् अश्वत्थाम्न नम: ओम् कपाय नमः श्रोम् वलये नमः ओम् प्रहादाय नमः ओम् हनुमते नम: ओम् विभौषणाय नमः ओम् जन्मतिथये नमः। द्विभुजां हेमगोरागों रत्ना. लङ्कारभूषिताम्। वरदाभयहस्ताञ्च शरच्चन्द्रनिभाननाम् । पौतवस्त्रपरोधानां पौनोन्नतपयोधराम् । अङ्कार्पितमुतां षष्ठी. मम्बुजस्थां विचिन्तयेत्। इति ध्यात्वा ओम् षष्ठय नमः अस्या नैवेद्य दधिभक्तमपि दद्यात्। ओम् 'जय देवि जग. न्मातर्जगदानन्दकारिणि। प्रसौद मम कल्याणि नमस्ते षष्ठि देवि ते' इत्यनेन नमस्कात्। ओम् 'आयुर्देहि जयं देहि भाग्य भगवति देहि मे। पुत्रान् देहि धनं देहि सर्वान् कामांश्च देहि में'। इत्यनेन प्रार्थयेत्। 'त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च। ब्रह्मविष्णुशिवः साई रक्षा कुर्वन्तु तानि मे' । इति मत्स्यपुराणोयेन रक्षां पठेत् ततः सूतोन स्वग्रह्योतविधिना अग्निं संस्थाप्य तिलैोमं कुर्यात् पूजितदेवनामभिः। प्रणवादिचतुर्थ्यन्तेन नाम्ना स्वाहावसाने जुहुयात्। अष्टोत्तरशतम् अहाविंशतिरष्टौ वा। दक्षिणां तिलांच दद्यात् ब्राह्मणाय। जन्मतिथौ यदि शनिमङ्गल. वारयोगस्तदा तदद्योगसूचितदोषोपशमनाय मुक्तां दद्यात् । अत्र नक्षवायोगे काञ्चनं दद्यात्। कनिष्ठाङ्गलिमूलात्मकप्राजापत्यतीर्थेन तिलान् वपेत् ततो भोजनकाले गुड़दुग्ध मिश्रितान् तिलान् अञ्जल्यमितान् पिबेत्। अत्र मन्त्रः
For Private and Personal Use Only