________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्वत्यतत्त्वम् ।
मधौ कृष्ण त्रयोदशौ । गङ्गायां यदि लभ्येत सूर्यग्रहशतैः समा। शनिवारसमायुक्ता सा महावारुणौ स्मृता । गङ्गायां यदि लभ्येत कोटिसूर्य ग्रहैः समा । शुभयोगसमायुक्ता शनौ शतभिषा यदि । महामहेतिविख्याता त्रिकोटिकुलमुद्धरेत्' । संज्ञाविधेः सार्थकत्वाय निमित्तत्वेन मासपचतिथ्युल्लेखानन्तरं महावारुणीमहामहावारुण्यौ उल्लेखनीये । ओम् तत्सदित्युच्चार्य श्रम् अद्य चैत्रे मासि कृष्णे पचे वारुणनक्षत्रयुक्तत्रयोदश्यान्तिथौ अमुकगोत्रोऽमुकदेवशर्मा बहुशत सूर्यग्रहणकालीनगङ्गास्नानजन्य फल समफलप्राप्तिकामो गङ्गायां स्नानमहं करिष्ये । महावारस्यान्तु ओम् अद्य चैत्रे मासि कृष्णे पचे त्रयोदश्यान्तिथौ महावारुण्यां बहुकोटिसूर्यग्रहणकालीनगङ्गास्नानजन्यफल सम फलप्राप्तिकामो गङ्गायां करिष्ये । एवं महामहावारुण्याम् अमुकगोत्रोऽसुकदेवशर्मा त्रिकोटिकुलोडर णकामो गङ्गायां स्नानमहं करिष्ये । इति सङ्कल्प यथाविधि स्नायात् । कुलं पुरुषम् । अत्र सधवाख्यादीनां स्नानं रात्रावपि वारुण्यादिनानम् ।
अमोघा
श्रय अशोकाष्टमी । तत्र स्रोतो जले बुधवारे पुनर्वसुनक्षत्रयुक्त शुक्लाष्टम्यां वाजपेययज्ञजन्य फल समफल प्राप्तिकामः स्नायात् । ब्रह्मपुत्त्रे तु सर्वपापक्षयपूर्वक सर्वतीर्थस्नानजन्यफलसम फलप्राप्तिकामः स्वायात् । स्नानेति कर्त्तव्यतां विधाय श्रम 'ब्रह्मपुत्र महाभाग शान्तनोः कुलनन्दन । गर्भसद्भूत पापं लौहित्य में हर' । इति पठित्वा स्वायात् । केवलशुक्लाष्टम्यां ब्रह्मपदगमनफलम् । पञ्चमाई प्रहरव्यापिन्यां पुनर्वसुयुक्तायां केवलायां वा उभयदिने शुक्लाष्टम्यां शोकरहितत्वकामः अष्टावशोककलिका अहं पिवे इति संङ्कल्पय 'वामशोक हराभौष्टमधुमाससमुद्भव । पिवामि शोकसन्तप्हो
For Private and Personal Use Only
४६३
स्नान महं