________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४३२
कत्यतत्त्वम् ।
अथ चैत्रकृत्यम् । तत्र संक्रान्त्यां विस्फोटकभयोपशमन: कामो घण्टाकर्णे हिचे पूजयेत् । श्रम् ' घण्टाकर्ण महावीर सर्वव्याधिविनाशन । विस्फोटकभये प्राप्ते रक्ष रक्ष महाबल' । इत्यनेन त्रिः पूजयेत् । एवं शीतलादेव्याः पूजादिकं यथाशक्ति विस्फोटकाद्युपशमनकामः । स्तवनमेव कर्त्तव्यं तत्र स्कन्दपुराणम् । 'नमामि शौतलां देवीं रासभस्थां दिगम्बरौम् । मार्जनौ कल सोपेतां सूर्पालङ्कृतमस्तकाम्' । स्कन्द उवाच 'भगवन् देव देवेश शौतलायाः स्तवं शुभम् । वक्तुमर्हस्यशेषेण विस्फोटकभयापहम्' । ईश्वर उवाच । 'वन्देऽहं शीतलां देवीं विस्फोटकभयापहाम्। या मासाद्य निवर्त्तत विस्फोटकभयं महत् । शीतले शीतले चेति यो ब्रूयाहाहपीड़ितः । विस्फोटकभवो दाहः क्षिप्रं तस्य विनश्यति । शौतले ज्वरदग्धस्य पूतिगन्धगतस्य च । चक्षुषः पु'सस्त्वामा हुर्जीवनौषधम् । शीतले तनुजान् रोगान् नृणां हरसि दुस्त्यजान् । विस्फोटकविशीर्णानां त्वमेका मृतवर्षिणौ । गलगण्डग्रहा रोगा ये चान्ये दारुणा नृणाम् । त्वदनुध्यानमात्रेण शीतले यान्ति संचयम् । न मन्त्रो नौषधं किञ्चित् पापरोगस्य विद्यते । त्वमेका शौतले वात्रौ नान्यं पश्यामि देवताम् । मृणालतन्तुसदृशीं नाभिहृन्मध्यसंस्थिताम् । यस्त्वां सञ्चिन्तयेद्देवि भक्तिश्रद्धासमन्वितः । उपसर्गविनाशाय परं स्वस्त्ययनं हि तत् । यस्त्वामुदकमध्ये तु ध्यात्वा संपूजयेन्नरः । विस्फोटकभयं घोरं गृहे तस्य न जायते । अष्टकं शीतलादेव्या न देयं यस्य कस्यचित् । दातव्यं हि सदा तस्मै भक्तिश्रद्धान्वितो हि य:' इति श्रीस्कन्दपुराणे शीतलास्तोत्रं समाप्तम् ।
प्रनष्टः
अथ वारुण्यादि । स्कन्दपराणे । ' वारुणेन समायुक्ता
For Private and Personal Use Only