SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कृत्य तत्त्वम् । · सप्तम्यां पौषसप्तमीं यावत् आरोग्य सम्पत्कामोऽभीष्टतत्तत्फलकामो वा अर्का ग्रादीतरभोजनविच्छित्तिविधानेन सप्तमोव्रतमहं करिष्य इति सङ्कल्प संयमपारणसहितं तत्तन्मासि तत्त त्रियमं कुर्य्यात् । तत्र माघे अर्काग्रमात्रं भुञ्जीत फाल्गुने अन्तरोक्षगृहीतं यवमात्र प्रमाणं कपिलाविट् तदभावे अन्य गोमयमपौति । चैत्रे मरोचमेकम् । वैशाखे किञ्चिज्जलम् । । ज्यैष्ठेऽपक्ककदलीफलमध्यकणामात्रम् । आषाढ़े स्वच्छायदिगुणसमये यवप्रमाणं कुशमूलम् । श्रावणे नक्त कालेऽल्पं हविष्यौदनम्। भाद्रे शुडोपवासः । आश्विने पञ्चमायामे मयूराण्ड प्रमाणं हविष्यान्नम् । कार्त्तिके अप्रसृतिमात्र' कपिलाक्षौरं तदभावे क्षौरान्तरम् । मार्गशीर्षे प्राङ्म ुखो वायुशनम् । पौषे स्वल्पं घृतं तदनन्तरञ्च 'ब्राह्मणान् भक्षयेत् भक्त्या गुड़चौरनिरामिषैः । विप्राय दक्षिणा देया विभवस्यानुरूपतः । अष्टम्यां पारणं कुर्य्यात् कटूम्लरहितेन च । मुद्द मासतिलादीनि घृतञ्चैव विवर्जयेत्। एकसि भच्यमुक्तमर्कतन्त्रानुसारतः । चान्द्रमासविशेषोल्लेखवत् अनन्तादिव्रतवत् मलमासेतरे तत्तु कर्त्तव्यम् । रती अथ आरोग्य सप्तमी 1 तत्र पूर्ववत् सप्तम्यान्तिथी आरभ्य ऐहिकारोग्यधनधान्यपारलौकिक शुभस्थानप्राप्तिकामः संवत्सरं यावत् आरोग्य सप्तमीव्रतमहं करिष्य इति सङ्कल्पर प्रतिमासशुक्ल सप्तम्यां शालग्रामे घटादिस्थजले वा पूजयेत् । म्बुजासनमिति ध्यात्वा एतत् पाद्यम् श्रीम् सूर्याय नम इत्यादिभिः संपूज्य 'आदित्यभास्कररवे भानो सूर्य दिवाकर । प्रभाकर नमस्तेऽस्तु रोगादस्मान् प्रमोचय' इति त्रिः पूजयेत् । एवं संवत्सरे पूर्णे दक्षिणां दद्यात् । ब्राह्मणांव भोजयेत् विशेषमासानुद्देशादमावास्याव्रतवत् मलमासेऽपि कर्त्तव्यम् । • For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy