________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५८
कत्यतत्त्वम् ।
इति सङ्कल्पा शालग्रामे जले वा पूजयेत्। प्रोम् 'पाशाक्ष. मालिकाम्भोजमृणिभिर्याम्यसौम्ययोः पद्मासनस्थां ध्यायेच श्रियं त्रैलोक्यमातरम्। गौरवणां सुरूपाच्च सर्वालङ्कार. भूषिताम्। रोक्म पद्मव्यग्रकरां वरदां दक्षिणेन तु'। इत्यनेन ध्यात्वा एतत् पाद्यम् ओम् लक्ष्म नमः इत्यादिना नैवेद्या. न्तेन पूजयेत्। ओम् 'नमस्ते सर्वदेवानां वरदासि हरिप्रिये। या गतिस्त्वत्प्रपन्नानां सा मे भूयात्त्वदर्चनात्' इत्यनेन पुष्पाञ्जलित्रयेण प्रणमेत् । प्रोम् तत्सदित्युच्चार्य ओम् अद्येत्यादि सरखतीप्रीतिकामः सरस्वतीपूजनमहं करिष्ये । इति सङ्कल्पा शालग्रामे घटादिस्थजले वा पूजयेत् ओम् 'तरुणशकलमिन्दोविभ्रती शुभकान्तिः कुचभरनमिताङ्गी सविषया सिताले निजकरकमलोद्यल्लेखनौपुस्तक श्रीः सकलविभवसिध पातु वाग्देवता नः'। इति ध्यात्वावाह्य एतत् पाद्यम् ओम् सरस्वत्यै नमः इत्यादिना नैवेद्यान्त न पूजयेत् । नतः ओम् ‘भद्रकाल्यै नमो नित्यं सरस्वत्यै नमो नमः। वेद. वेदाङ्गवेदान्तविद्यास्थानेभ्य एव च स्वाहा' इति ब्रह्मपुराणोयेन पुष्याञ्जलिना त्रिः पूजयेत् । मत्यसूक्त सरस्वती संपूज्य श्रोम् 'यथा न देवी भगवान् ब्रह्मा लोकपितामहः । त्वां परित्यज्य मंतिष्ठेत्तथा भव वरप्रदा। वेदा: शास्त्राणि सर्वाणि नृत्य गीतादिकञ्च यत्। न विहीनं त्वया देवि! तथा मे सन्तु सिद्धयः। लक्ष्मीमे धाधरापुष्टिौरी तुष्टिः प्रभा तिः । एताभिः पाहि तनुभिरष्टाभिमां सरस्वति' इति मत्स्यपुरा. णीयैः प्रार्थं प्रणमत्। 'बन्धुजीवच्च द्रोणञ्च सरस्वत्यै न दापयेत्'। आचारात् पुस्तकच पूजयेत् ओम् मस्याधाराय नम इति मस्याधारं पूजयेत्। भोम् लेखन्यै नम इति लेखनी पूजयेत्।
For Private and Personal Use Only