________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कृत्य तत्त्वम्।
४५७
गोविन्दाच्युत माधव । स्नानेनानेन मे देव यथोक्तफलदो भव । दिवाकर जगन्नाथ प्रभाकर नमोऽस्तु ते। परिपूर्ण कुरुष्वेदं माघस्नानं महाव्रतम्। स्कन्द पुराणम्। 'संप्राप्ते मकरा. दित्ये पुण्ये पुण्यप्रदे शुभे। कर्तव्यो नियमः कश्चित् व्रजरूपी नरोत्तमः'। तत्तत् पुण्य काम: श्रीविष्णुप्रीतिकामो वा इति वाक्ये विशेषः । पौष्या: पौर्णमास्या ऊद्द मावपौर्णमासीपर्यन्त मदिरातुल्यत्वान्मूल कभक्षणं न कर्त्तव्यम् । पौष्था ऊर्छ माघकृष्णाष्टम्यां छागमांसानेन श्राद्धं कर्तव्य सांसाभावे पायसोपकरण न तदभावे केवलान वा श्राद्ध कर्त्तव्यम् । ___ अथ रटन्तीचतुर्दशो। 'माघे मास्यमिते पक्षे रटन्त्याख्या चतुर्दशी। तस्यामुदयवेलायां स्नाता नावेक्षते यमम्' । उदयवेलायाम् अरुणोदयवेलायाम् 'अनभ्यिदिते काले माघे कषाचतुर्दशौ। मतारव्योगकाले तु तस्यां स्नानं महाफलम् । मात्वा सन्तयं तु यमान् सर्वपापैः प्रमुच्यते'। अत्र तिथिकत्यत्वागौणचान्द्रादरः। तत्र उभयदिनेऽरुणोदय सतारकाले मुह न्यूनचतुर्दशोलामे पूर्वदिने स्नानं यमतर्पणञ्च एकदिनमात्रे तल्लामे तहिने। माघस्नानकालाभ्यन्तरे तादृशचतुर्दशीलाभे माधप्रात:नायिना तन्वेण इयं कार्यम्। तत्र ओम् तत्सत् अद्य माघे मासि कपणे पक्षे रटन्त्यां चतुर्दश्यां तिथौ अरुणोदयवेलायाम् अमुकगोत्र: श्री अमुकदेवशर्मा यमादर्शनकामो गङ्गायां मानमहं करिष्य इति सङ्कल्पा यथाविधि स्नानं प्रागुक्तं चतुर्दशयमतर्पणञ्च कुयात्।।
अथ श्रीपञ्चमी। तत्र उभयदिने पूर्वाह्न श्रीपञ्चमोलामे पूर्वदिने लक्ष्मी सरस्वत्योः पूजनं युग्मात् एकदिनप्राप्ते तद्दिने एवं षड्वर्ष शुक्लपञ्चमौव्रतेऽपि ततश्च ओम् तत्सदित्युच्चार्य ओम् अद्येत्यादि लक्ष्मीप्रीतिकामो लक्ष्मी पूजनमहं करिष्ये
३८-क
For Private and Personal Use Only