________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्वत्य तत्त्वम् ।
४५५
भने बुधः । सुस्थकाले त्विदं सर्वं नातः कालमपेक्षते । चन्द्रे च शङ्ख ं लवणञ्च तारे तिथावभद्र सिततण्डुलांश्च । धान्यञ्च दद्यात् करणर्क्षवारे योगे तिलान् हेममणिञ्च लग्ने' । राजमार्त्तण्डे । ताराभेदाल्लवणपरिमाणमाह 'एकत्रिपञ्च सप्त द्विजाय दद्यात् पलानि लवणस्य च क्रमशो जन्मनि विपदि प्रत्यरिमर'णाख्यतारासु । पलन्तु लौकिकैर्माने: साष्टरत्तिहिमाषकम् । तोलकवितयं ज्ञेयं ज्योतित्रैः स्मृतिसम्प्रतम्' । ततो ' एवं दध्याज्य संयुक्तं नवं विप्राभिमन्त्रितं' मन्त्रानादेशे गायत्रीति गायत्राभिमन्वितं नवमत्र' ब्राह्मणानुज्ञां गृहीत्वा प्राश्नीयात् । नूतनधान्यासम्भवे पुरातनेनापि श्राद्धं कर्त्तव्यम् । वृश्चिके शुक्लपक्षे तदकरणे हरिशयनात् पूर्वं मोनधनुस्थरवीतरत्र माघादौ कर्त्तव्यम् । वृश्चिकस्थरवी शुक्लचतुर्दश्यां सौभाग्यकामः पाषाणाकारपिष्टकैर्देवीं पूजयेत् तदपि भचयेन्रक्तम् । आग्रहायण्यां पौर्णमास्यां पार्वणविधिना श्राद्धमावश्यकम् । भविष्यपुराणे 'रोहिणीप्रतिपद युक्ता मार्गे मासि सितेतरा | गङ्गायां यदि लभ्येत सूर्यग्रहशतैः समा' |
श्रथ पोषकत्यन् । अग्रहायण्याः पौर्णमास्या ऊई कृष्णाटम्यां पूपोपकरणेनान्नेन श्राद्धं कर्त्तव्य पार्वणविधिना । अथ माघकृत्यम् । पाद्म े 'स्वर्गलोके चिरं वासो येषां मनसि वर्त्तते । यत्र क्वापि जले तैस्तु स्नातव्यं मृगभास्करे । मृगो मृगास्यत्वेन मकर : मकरस्य भास्करे तत्र सङ्कल्पः । अरुणोदयकाले जले मज्जनं कृत्वा आचम्य उत्तराभिमुखः श्रम् तत्सदित्युच्चार्य कुशकुसुम तिलजलान्यादाय श्रमद्य माघे मासि अमुक पक्षे अमुकतिथावारभ्य मकरस्थरविं यावत् प्रत्यहम् अमुकगोत्रोऽसुकदेवशर्मा स्वर्गलोके चिरकालवासकामी विष्णुप्रीतिकामो वा प्रातः स्नानमहं करिष्ये इति
For Private and Personal Use Only