________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कत्यतत्वम् ।
४५३ तत्र जये वर्षे शुभं पराजये वर्षम् अशुभम्। ततः सङ्कल्पा शालग्रामे जले वा एतत् पाद्य वलये नम: इत्यादि संपूज्य ओम् वलिराज नमस्तुभ्य विरोचनसुत प्रभो। भविष्येन्द्र सुरा. राते पूजेयं प्रतिग्टह्यताम्'। अनेन पुष्पाञ्जलित्रयं दद्यात् । भविष्योत्तरे 'यो यो यादृशभावेन तिष्ठत्यस्यां युधिष्ठिर। हर्षदैन्यादिना तेन तस्य वर्षे प्रयाति हि'। तथा 'महापुण्या तिथिरियं वलिराज्यप्रवाई नौ। स्नानं दानं शतगुणं कार्तिकेऽस्यां तिथौ भवेत्।
अथ भ्राहितौया। तत्राष्टधा विभतदिनपञ्चमयामाई प्राप्तायां द्वितीयायाम् उभयदिने तथा चेत् परदिने कृत्य युग्मात् । तत: प्रोम् तत्सदित्यच्चार्य ओम् श्रोत्यादि अमुकगोत्रोऽमुकदेवशर्मा स्वरक्षणकामो यमादिपूजनमहं करिष्य इति सङ्कल्पा शालग्रामे घटादिस्थजले वा पूजयेत्। एतत् पाद्य यमाय नमः। एवं क्रमेण संपूज्य 'एह्यहि मार्तण्डज पाशहस्त यमान्तकालोकधरामरेश। घाटहितोया कृत. देवपूजां गृहाण चाध्यं भगवन्नमस्त' इदमध्य यमाय नमः तत आचमनीयादिकं दत्त्वा प्रणमेत् । प्रोम् ‘धर्मराज नमस्तुभ्य नमस्त यमुनाग्रज। पाहि मां किङ्करैः साइं सूर्यपुत्व नमोस्तु ते। ततश्चित्रगुप्ताय नम इत्यनेन पूजयेत् । तत ओम् यमदूतेभ्यो नम: इत्यनेन पाद्यादिभिः पूजयेत् यमुनाञ्च पाद्यादिभिः संपज्य प्रण मेत् । प्रोम् 'यमस्वसनमस्तेऽस्तु यमुने लोकपूजिते । वरदा भव मे नित्यं सूर्य पुत्ति नमोऽस्तु ते । ततो भाटभोजनकालेऽन्नादिकं दत्त्वा भ्रातस्तवानुजाताहं भुद्ध भक्तमिदं शुभम् । प्रौतये यमराजस्य यमुनाया विशेषतः' । ज्येष्ठा चेत् तवाग्रजाताहमिति वदेत् तत: पुष्टिकामो भुजौत 'यत्नात्तु भगिनीहस्तात् भोक्तव्य पुष्टिवर्धनम्।
For Private and Personal Use Only