________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५२
सत्यतत्त्वम्।
महं करिष्यं इति सङ्कल्या गालग्रामे घटादिस्थजले वा भूतशुद्धयादिकं तत्वा लक्ष्मी पूजयेत्। तद् यथा प्रोम् पाशाक्ष इत्यादिना ध्यात्वा प्रोम भूर्भुवः स्वमहालक्ष्मि इहागच्छेत्यावाह्य एतत् पाद्य लक्ष्म नमः एवमर्ध्याचमनौयगन्धपुष्पधूपदीपनैवेद्यपुनराचमनीयताम्बलादि प्रत्ये कं दद्यात्। प्रोम 'नमस्ते सर्वदेवानां वरदासि हरिप्रिये। या गतिस्त्वत् प्रपनानां सा मे भूयात्त्वदर्चनात्' इत्यनेन पुष्पाञ्जलित्रयं दत्त्वा प्रणमेत् ओम् 'विश्वरूपस्य भायासि पद्म पद्मालये शुभे । सर्वत: पाहि मां देवि ! महालक्ष्मि नमोऽस्तु ते' । ततः मुखरात्नया: प्रदोषे तु कुवेरं पूजयन्ति ये' इति रुद्रवचनात् । कुवेरमपि पाद्यादिभिः पूजयेत्। ओम् ‘धनदाय नमस्तुभ्य निधिपद्माधिपाय च। भवन्तु तत्प्रसादान्म धनधान्यादि सम्पदः' इति पठित्वा ओम् कुवेराय नम इति त्रिपूजयेत् । ततो शहादिषु दोपं दद्यात्। तत्र मन्त्रः ओम् ‘अग्निज्योतो. रविज्योतिश्चन्द्र ज्योतिस्तथैव च। उत्तमः सर्वज्योतीनां दीपोऽयं प्रतिगृह्यताम्' । ततो ब्राह्मणान् बन्धूच भोजयित्वा स्वयं भुञ्जौत तत्र प्रत्यूषे भविष्यातं कर्म कर्तव्यं गोरोचनातिलकधारण प्रदीपवन्दनं कृत्वा लक्ष्मी त्रिः पूजयेत् तत्र मन्त्रः ओम् 'विश्वरूपस्य भायासि पद्म पद्मालये शुभे। महालक्ष्मि नमस्तुभ्य सुखरात्रिं कुरुष्व मे। वर्षाकाले महाघोरे यन्मया दुष्क तं कृतम्। सुखरात्रिप्रभातेऽद्य तन्म लक्ष्मोव्यपोहतु। या रात्रिः सर्वभूतानां या च देवेष्ववस्थिता। संवत्सरप्रिया या च मा ममास्तु सुमङ्गला। माता त्वं सर्वलोकानां देवानां सृष्टिसम्भवा। पाख्याता भूतले देवि ! सुखरात्रि नमोस्तु ते' ओम् लक्ष्म नमः इति त्रिः पूजयेत् ।
अथ द्यूतप्रतिपत्। तत्र प्रभातेऽक्षक्रीड़ादिकं कर्तव्य
For Private and Personal Use Only