________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कृत्य तवम् ।
४५.१
वचनम् । 'ओलं के मुकवास्तुकं सर्षपं कालच निम्ब जयां शालिञ्चि' हिलमोचिकाञ्च पटुकं शौल्फं गुडुचीं तथा भण्टाकीं सुनिषसकं शिवदिने खादन्ति ये मानवाः प्रेतत्वं न च यान्ति कार्त्तिकदिने कृष्णे च भूते तिथौ' । जयां जयन्तीं पटकं पटोलम् ।
मम ।
अथ दीपान्वितामावस्या । एतत् कृत्यप्रमाणं तिथितत्त्वऽनुसन्धेयम् । तत्र बालातुरवृष्टव्यतिरेकेण दिवा न भोक्तव्यं तत्र पार्वणश्राद्धं कृत्वा प्रदोषे प्राचीनावोती दक्षिणामुखः ज्वलदुल्कां ग्टहीत्वा श्रम् शस्त्राशस्वहतानाञ्च भूतानां भूतदर्शयोः । उज्ज्वलज्योतिषा देहं दहेयं व्योमवह्निना' इत्यनेन गृह्णीयात् श्रम् 'अग्निदग्धाश्च ये जौवा येऽप्यदग्धाः कुले उज्वलज्योतिषा दग्धास्त यान्तु परमां गतिम्' । इत्यनेन भूमौ स्थापयेत् । श्रम् 'यमलोकं परित्यज्य आगता ये महालये । उज्ज्वलज्योतिषा वर्त्म प्रपश्यन्तां व्रजन्तु ' इत्यनेन पितॄन् विसर्जयेत् । यद्येवं पूर्वदिन एव प्रदोषव्यापिनी श्रमावास्या तदा पूर्वदिन एव श्राडमक्कत्वापि उल्कादानं कत्र्त्तव्यम् । आचारात् पञ्चभूतोपाख्यानञ्च श्रोतव्यम् । । यतः प्रदोषव्याप्तौ परदिन एव युग्मात् । उभयतः प्रदोषाप्राप्तावपि उल्कादानं परदिने पार्वणानुरोधात् । श्रत्र वे पूर्वदिने लक्ष्मी रात्रौ पूज्या । 'श्रमावस्या यदा रात्रौ दिवाभागे चतुर्दशी । पूजनीया तदा लक्ष्मीर्विज्ञेया सुखरात्रिका' इति वचनात् । लक्ष्मीपूजाविषयेऽपि एवं व्यवस्था । ततो गृह मध्ये उत्तराभिमुखो लक्ष्मीं पूजयेत् । ततः स्वस्तिवाचनपूर्वकम् श्रीम् सूर्यः सोम इति पठित्वा ओम् तद्दिष्योरिति च तिलपुष्पजलान्यादाय ओम् तत्सदित्युच्चार्य श्रोम् अद्य त्यादि अमुकगोत्रोऽसुकदेवशर्मा परमविभूतिलाभकामो लक्ष्मीपूजन
उभ
For Private and Personal Use Only