________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्त्वम् ।
कृष्णा तथेतरा । तुल्ये ते मन्यते यस्तु स वैष्णव उच्यते' कालमाधवौये नारदः । 'नित्य' भक्तिसमायुक्तेर्न रे विष्णुपरायणैः । पचे पचे च कर्त्तव्यमेकादश्यामुपोषणम्' । अत्र विष्णुपरायणानां पक्षे पक्षे चेति वोसया यावत् पचैकादश्युपवासस्य नित्यताप्रतीतेः । श्रपतिव्यवहारनिर्णये । 'शुक्ल' वा यदि वा कृष्णे विष्णुपूजनतत्परः । एकादश्यां न भुञ्जीत पक्षयो रुभयोरपि' इति वचनाच्च । नित्य' भक्तिसमायुक्तैरित्यन्तरम् । 'मपुत्रख सभार्य्यश्च सजने भक्तिसंयुतैः । एकादश्यामुपवसेत् पक्षयोरुभयोरपि । ब्रह्महा च सुरापश्च कृतघ्नो गुरुतल्पगः । विवेचयति यो मोहादेकादश्यौ सितेतरं । गृहस्थो ब्रह्मचारी च आहिताग्निर्यतिस्तथा । एकादश्यां न भुञ्जीत पचयोरुभयोरपि' । इत्ये ते हलायुधेन तथा व्यवस्थापितत्वात् । वैष्णवानां तथा व्यवहाराच्च । मुमुक्षुत्वेन सुतरामेव । तथा भविष्ये 'शुक्लाग्गृहस्थैः कर्त्तव्या भोगमन्तानवर्द्धिनी । मुमु क्षुभिस्तथा कृष्णा तेन तेनोपदर्शिता' । वाराहेऽपि । यथा शुक्ला तथा कृष्णा उपोष्या च प्रयत्नतः । शुक्ला भक्तिप्रदा नित्यं कृष्णा मुक्ति प्रयच्छति' । द्विजन्मनो विशेषतोऽपि गोविन्दमानसोल्लासक्कत्य महार्णवयोर्भविष्यपुराणम् । 'उभयोः यक्षयो राजन्नेकादश्यां द्विजन्मवान्। योभुङक्ते नोरुजः मोऽपि प्रेत्य चाण्डालतां व्रजेत्' । एतद्वचनं भविष्यपुराणौयमिति कृत्यकल्पलता । साऽपीत्यव सोऽथेति विशेषः । अत्र कवित् । 'आदित्येऽहनि संक्रान्त्यामसितैकादशीदिने । व्यतीपाते कृते श्रा पुत्री नोपवसेदग्टहौ' इति ब्रह्मपुराणवचनादेकादश्यां रविवारादावुपवासनिषेधमाह । 'उपवासनिषेध तु किञ्चिद्भयं प्रकल्पयेत् । उपवासो न दुष्येत उपवासफल लभेत्' इति वराहपुराणादनोदनादिकमप्याह । तन्न विष्णु
1
For Private and Personal Use Only
३८