SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कृत्यतत्वम् । ४४८ त्यादि अमुकतिथौ प्रारभ्य तुलावरविं यावत् प्रत्यहम् अमुकगोत्रोऽमुकदेवशर्मा वैमानिकदेवत्वभवनपूर्वकपरमपदप्राप्तिकाम: श्रीविष्णुप्रौतिकामो वा हविष्थेतरभोजननिवृत्तिमहं करिष्य इत्यादिवाको विशेषः । एवं फलाहारादावपि हविथद्रव्याणि च 'हैमन्तिकं सिताखिन धान्यमुहास्तिला. यवाः। कलायकङ्गनौवारावास्तू कं हिलमोचिका। षष्टिका कालशाकञ्च मूलकं के मुकेतरत्। लवणे सैन्धवसामुद्रे गये च दधिसपिषो। पयोऽनुद्धृतसारञ्च पनसानहरोतको। तिन्तिडोजौरकञ्चैव नागरमञ्च पिप्पली। कदली लवली धात्री फलान्य गुड़मैक्षवम् । अतैलसानं मुनयो हविष्यान्न विदुधाः' । हैमन्ति कमित्यभिधायागस्त्यसंहितायाम् । नारिकेलफलञ्चैव कदलों लवलीन्तथा। आममामलकञ्चैव पनसञ्च हरीतकौम्। व्रतान्तरप्रशस्तञ्च हविष्य मन्वते बुधाः' । अत्र च प्रारब्धव्रतोपवासादौ फलजलादिभक्षणमप्याहतुः उदयोगपर्वबौधायनौ। अष्टतान्यव्रतनानि आपो मूल फलं पयः। हविर्ताह्मण काम्या च गुरोर्वचनमौषधम्'। फलाहारादावपि तुलसौरहिते दोषमाह 'तुलसी विना यत् क्रियते न पूजा स्नानं न तद् यत्तुलसी विना कृतम्। भुक्तं न सद् यत्तुलसौविवर्जितं पोतं न तद् यत्तुलसौविवर्जितम् । नारदीये 'न मत्स्य भक्षयेन्मांमं न कौमें नान्यदेव हि । चण्डालो जायते राजन् कार्तिके मांसभक्षणात्'। महाभारते। 'कौमुदन्तु विशेषेण शुक्लपक्षे नराधिप । वर्जयेत् सर्वमांसानि धर्मो मंत्र विधीयते'। कौमुदं कार्तिकम् । कार्तिकमधिकृत्य ब्रह्मपुराणम्। 'एकादश्यादिषु तथा तासु पञ्चसु रात्रिषु। दिने दिने च नातव्यं शीतलासु नदीसु च। वर्जितव्या तथा हिंसा मांसभोजनमेव च'। ततश For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy