________________
Shri Mahavir Jain Aradhana Kendra
४४८
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
कृत्य तत्त्वम् ।
वाक्यन्तु वैशाखक्क त्येऽनुसन्धेयम् । तथा वायुपुराणे 'यदीच्छेहिपुलान् भोगान् चन्द्रसूर्यग्रहोपमान् । कार्त्तिकं सकलं व्याप्य प्रातःस्नायो भवेन्नरः' । गारुड़े 'गवामयुतदानेन यत् फलं लभते खग । तुलसीपत्रकैकेन तत् फलं कार्त्तिके स्मृतम्' । ओम् अद्येत्यादि तुलसीपत्रकै कसम संख्यायुतधेनुदानजन्य फल समफल प्राप्तिकामः एतानि तुलसीपत्राणि श्रीविष्णुवेऽहं ददे इत्यभिलम्य एतानि तुलसीपत्राणि श्रीविष्णवे नमः इत्यनेन दद्यात् । ब्रह्माण्डे 'विष्णुवेश्मनि यो दद्यात् कार्त्तिके मासि दौपकम् । अग्निष्टोमसहस्रस्य फलमाप्नोति मानवः' । ओम् ' दामोदराय नभसि तुलायां लोलया सह । प्रदीपन्ते प्रयच्छामि नमोऽनन्ताय वेधसे' । लोलया लक्ष्मया 'इति मन्त्रेण यो दद्यात् प्रदीपं सर्पिरादिना । आकाशे मण्डपे वापि स चाक्षयफलं लभेत् । स्नानवत् श्रम् अद्येत्यादि अमुकतिथौ श्रारभ्य तुलास्थरविं यावत् प्रत्यहम् अमुकगोत्रोऽसुकदेवशर्मा अक्षयदीपदानफलप्राप्तिकामः श्रीविष्णुप्रीतिकामो वा आकाशे मण्डपे वापि श्रीविष्णवे दीपदानमहं करिष्ये इति सङ्कल्पा दामो दरायेत्यादिना दद्यात् द्वितीयादिदिने श्रम् दामोदरायेत्यनेनेति विशेषः । विष्णुग्टहे श्रम् श्रद्येत्यादि अमुकतिथौ आरभ्य तुला स्थरविं यावत् प्रत्यहम् अमुक गोत्रोऽसुकदेवशर्मा अग्निष्टोमसहस्रजन्यफल समफलप्राप्तिकामः श्रीविष्णुप्रीतिकामो वा श्रीविष्णु वेश्मनि श्रीविष्णवे दौपदानमहं करिष्य इति सङ्कल्पा ओम् दामोदरायेत्यादिना दद्यात् । द्वितीयादिदिने ओम् दामोदरायेत्यनेनेति विशेषः । हविष्यात्रादौ तु ब्रह्मपुराणे 'व्रतोपवासनियमैः कार्त्तिको यस्य गच्छति । देवो वैमानिको भूत्वा स याति परमं पदम् । तत्र पद्ये
For Private and Personal Use Only
•