________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४४२
क्वत्यतत्त्वम् ।
भूतेश्वराय भूतपतये भूतसम्भवाय गोविन्दाय नमो नमः" इत्यनेन ब्रतं समापयेदिति ।
भाद्रशुक्लपञ्चमौमधिकृत्य भविष्योत्तरे 'तथा भाद्रपदे मासि पञ्चम्यां श्रद्धयान्वितः । सर्पे लिख्य नरो भक्त्या कृष्णवर्णादिवर्णकैः । पूजयेद्गन्धमाल्येच सर्पिर्गग्गलुपायमैः । तस्य तुष्टिं समायान्ति पन्नगास्तक्षकादयः । आसप्तमात् कुलात्तस्य न भयं सर्पतो भवेत् । तस्मात् सर्वप्रयत्नेन नागान् संपूजये - नरः' इयमेव नागपञ्चमीति वाचस्पतिमिश्राः । आलेख्यानागाः कर्कोटादयः पूर्वलिखिता: पूजा च श्रावणपञ्चमीविहितेति बोध्यम् ।
अथ हरेः पार्श्वपरिवर्त्तनं तत्र भाद्रशुक्लद्वादश्यां श्रवणयुक्तायां केवलायां वा कृताह्निकः सायं सन्ध्यायां देवं संपूज्य | ओम् 'वासुदेव जगन्नाथ प्राप्तेऽयं द्वादशौ तव । पार्श्वन परिवर्त्तख सुख ं स्वपिहि माधव' इति कृताञ्जलिः पठेत् । 'त्वयि सुप्ते जगन्नाथ जगत्सुप्त' भवेदिदं प्रबुद्धे त्वयि बुध्येत जगत् सर्वं चराचरम्' । इत्यनेन पूजयेत् ।
अथ सिंहा चतुर्थीचन्द्र दर्शनप्रायश्चित्तम् । 'पञ्चाननगते भानौ पक्षयोरुभयोरपि । चतुर्थ्यामुदितश्चन्द्रो नेचितव्यः कदाचन' । सिंहार्कमधिकृत्य ब्रह्मपुराणम् । 'नारायणोऽभिशप्तस्तु निशाकरमरोचिषु । स्थितश्चतुर्थ्यामद्यापि मनुव्याय पतेच्च सः । ततश्चतुर्थ्यां चन्द्रन्तु प्रमादाद्दोच्य मानवः । पठेद्दात्रेयिका वाक्यं प्राङ्म ुखो वाप्युदङ्म ुखः । अभिशस्तो मिथ्यापरिवादविषयौभूतः सोऽभिशापः ततश्च प्राम ुखः उदङ्म ुखो वा तिलकुशजलान्यादाय ओम् अद्येत्यादि सिंहार्क चतुर्थीचन्द्र दर्शनजन्यपापचयकामो धात्रेयिकावाक्यमहं पठिष्यामीति सङ्कल्पा । 'सिंहः प्रसेनमवधीत् सिंहो
For Private and Personal Use Only