________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कत्यतत्त्वम् ।
४४१
विभूषितम् । श्रीवत्साझं जगत्सेतुं श्रीकृष्णं श्रीधरं हरिम् । प्रपद्येऽहं सदादेवं सर्वकामप्रमिहये। इति स्तुत्वा प्रणमत् 'प्रणमामि सदादेवं वासुदेवं जगत्पतिम्'। तत: प्रार्थयेत् । प्रोम् 'बाहि मां सर्वलोकेश हरे संसारमागरात् । बाहि मां सर्वपापघ्न दुःखशोकार्णवाहर। सर्वलोकेश्वर नाहि पतित मां भवार्णवे। दैवकीनन्दन श्रीश हरे संसारसागरात। दुर्गतां स्त्रायसे विष्णो ये स्मरन्ति सक्त् मकत्। सोऽहं देवातिदुत्तस्त्राहि मां शोकमागरात् । पुष्कराह निमम्नोऽहं मायाविज्ञानसागरे। त्राहि मां देव देवेश त्वत्तो नान्योऽस्ति रक्षिता' इति प्रार्थयेत् । 'यद् बाल्ये यच्च कौमारे बाईक्ये यच्च यौवने। तत्पुण्यं वृद्धिमाप्नोतु पापं हर हलायुध' इति वदेत्। ततो नृत्यगीतवाद्यादिभिः शेषकालं नयेत् । परदिने प्रातःस्नानादि कृत्वा श्रीकृष्णं यथाविधि संपूज्य दुर्गायाश्च महोत्सवं कुर्य्यात्। ब्राह्मणान् भोजयेत् । दक्षिणां सुवर्णादि यत्किञ्चिदिष्टतमं श्रीकृष्णामे प्रीयतामित्य वा तेभ्यो दद्यात्। ततश्च 'यं देवं देवकोदेवं वसुदेवादजीजनत् । भौमस्य ब्राह्मणो गुप्त्य तस्मै ब्रह्मात्मने नमः । सुब्रह्मवासुदेवाय गोब्राह्मणहिताय च । शान्तिरस्तु शिव. ज्ञास्तु इत्यत्वा तान् विसर्जयेत्' । इति वचनात् इत्यु चार्य ब्राह्मणांश्च विसर्जयेत्।
ततश्च उपवासपरदिने तिथिनक्षत्रयोरवसाने पारणं यदा तु महानिशाया: पूर्व मे कतरस्यावसानम् अन्यतरस्य महानिशायां तदनन्तरं वा तदैकतरावसाने पारणम्। यदा महानिशायामुभयस्थितिस्तदोत्सवान्ते प्रात:पारणं कुर्यात् । तत्र मन्त्रः। ओम् 'सर्वाय सर्वेश्वराय सर्वपतये सर्वसम्भवाय गोविन्दाय नमो नमः'। पारणानन्तरन्तु ओम् 'भूताय
For Private and Personal Use Only